________________
(५२८) श्रीपद्मप्रभजिनेन्द्र-स्तुतिः। (६)
__ (बसन्ततिलका-छन्दः ) पादद्वयी दलितपद्ममृदुः प्रमोद
मुन्मुद्रतामरसदामलतान्तपात्री। पापभी प्रविदधातु सतां वितीर्ण
मुन्मुद्रताऽमरसदा मलतान्तपात्री ॥१॥ सा मे मतिं वितनुताजिनपङ्गिरस्त
मुद्रा गताऽमरसभामुरमध्यगाद्याम् । रत्नांशुभिर्विदधती गगनान्तराल
मुद्रागतामरसभासुरमध्यगाद्याम् ॥२॥ श्रान्तिच्छिदं जिनवरागममाश्रयार्थ
माराममानम लसन्तमसंगमानाम् । धामाग्रिमं भवसरित्पतिसेतुमस्त
माराममानमलसंतमसं गमानाम् ॥३॥ गान्धारी वज्रमुसले जयतः समीर
पातालसत्कुवलयावलिनीलमे ते ।। कीतीः करप्रणयिनी तव ये निरुद्ध
पातालसत्कुवलया बलिंनी लभेते ॥४॥