________________
(५३४) समभिलषतामहन्नाथागमानतभूपति, तनुमति मतां सन्नाशानां सदानरसं पदम् . ३ धृतपविफलाक्षालीघण्टैः करैः कृतबोधितप्रजयतिमहा कालीमाधिपङ्कजराजिभिः; निजतनुलतामध्यासीनां दधत्यपरिक्षतां, प्रजयति महाकाली माधिपं कजराजिमिः. ४ श्रीवासुपूज्यजिनेन्द्र-स्तुति. (१२)
( स्नग्धरा-वृत्तम् ) पूज्य श्रीवासुपूज्याऽवृजिन जिनपते नूतनादित्यकान्तेऽमायासंसारवासावन वर तरसाली नवालानबाहो ! आनना त्रायतां श्रीप्रभव भवभयाद् बिभ्रती भक्तिभाजामायासं सारवाऽसावनवरतरसालीनवाला नवाऽहो. १ पूतो यत्पादपांशुः शिरसि सुरततेराचरच्चूर्णशोभां, या तापत्राऽसमाना प्रतिमदमवतीहाऽरता राजयन्ती; कीर्तेः कान्त्या ततिः सा प्रविकिरतुतरां जैनराजी रजस्ते, यातापत्रासमाना प्रतिमदमवती हारतारा जयन्ती. नित्य हेतूपपत्तिपतिहतकुमतप्रोद्धतध्वान्तवन्धाऽपापायासाद्यमानाऽमदन तव सुधासारहृद्या हितानि वाणी निर्वाणमार्गप्रणयिपरिगता तीर्थनाथ क्रियान्मे, ऽपापायासाद्यमानामदनत वसुधासार हृद्याहितानि. ३.