________________
xxxxxxxxxx
या अधिकरणता, तया निरूपिता हेतुतावच्छेदकसंबंधावच्छिन्ना या हेतुनिष्ठा वृत्तिता, सा वृत्तिता प्रतियोगिनी यस्य तादृशः तादृशवृत्तिताप्रतियोगिको यः विशेषणताविशेषसंबंध: स्वरूपसंबंधापरनामा, तेन संबंधेन साध्याभावाधिकरणताश्रयनिरूपितवृत्तितासामान्यस्य हेतौ अभावः व्याप्तिः ।
अत्र वृत्तिता स्वरूपसंबंधेन हेतौ वर्तते । अतो अयं संबंध: हेतु - अनुयोगिकः तादृशवृत्तिताप्रतियोगिकः च व्यवह्रियते ।
साध्याभावाधिकरणं च इत्थं
साध्यतावच्छेदकधर्मावच्छिन्न-साध्यतावच्छेदकसंबंधावच्छिन्न प्रतियोगिताको यः साध्याभाव:, तस्मिन् यत् साध्याभावात्वं; तत्साध्याभावत्वविशिष्टः यः साध्याभाव:, तेन निरुपिता निरुक्तसंबंधसंसर्गका निरवच्छिन्ना या अधिकरणता, तस्याः यः आश्रय:, तेन निरूपिताः यावन्त्यः वृत्तिताः, तासां सर्वाषां निरुक्तहेतुतावच्छेदकसंबंधावच्छिन्नवृत्तिताप्रतियोगिकसंबंधेन हेतौ अभावः व्याप्तिः । अथ दृष्टान्तः पर्वतो वह्निमान् धूमात् इति अत्र
धूमत्वावच्छिन्नधूमस्य अधिकरणता महानसादौ वर्तते । तया अधिकरणतया निरूपिता संयोगसंबंधाच्छिन्ना वृत्तिता धूमे । अत्र संयोगः हेतुतावच्छेदकः इति प्रतीतमेव । तथा च अत्र संयोगसंबंधावच्छिन्नवृत्तिता वर्तते । सा वृत्तिता स्वरूपेण वर्तते । अतः संयोगावच्छिन्नवृत्तिताप्रतियोगिकस्वरूपसंबंध: मीलितः । तेन संबंधेन साध्याभावाधिकरणनिरूपितवृतितासामान्यस्य अभावो धूमे यदि मीलति तदा लक्षणसमन्वयः ।
1
-
स च इत्थं मीलति - वह्नि - अभावत्वविशिष्टः वह्नि - अभाव:, तेन निरुपिता निरुक्तस्वरूपसंबंधसंसर्गका निरवच्छिन्ना अधिकरणता भूतलादौ । तेन निरूपिता संयोगावच्छिन्ना वृत्तिता घटादौ वर्तते । धूमो न भूतले संयोगेन वर्तते । अतो, अत्र संयोगावच्छिन्ना वृत्तिता न धूमनिष्ठा मीलति । भूतले कालिकेन धूमो वर्तते । अतो धूमे कालिकावच्छिन्ना वृत्तिता प्रसिद्धा । किन्तु महानसनिरूपिता संयोगावच्छिन्ना वृत्तिता धूमे वर्तते । तस्याः इयं कालिकावच्छिन्ना वृत्तिता भिन्ना । अतः संयोगावच्छिन्नवृत्तिता येन स्वरूपेण वर्तते, तेन स्वरूपेण कालिकावच्छिन्नवृत्तिता न धूमे । तथा च संयोगावच्छिन्नवृत्तिताप्रतियोगिकस्वरूपेण संयोगावच्छिन्नघटादि निष्ठवृत्तिता- कालिकावच्छिन्नधूमादिनिष्ठवृत्तितादिनां सर्वासां वृत्तितानां अभावो धूमे अस्ति । तथा च लक्षणसमन्वयः भवति ।
44
'धूमवान् वह्नेः" इति अत्र
वह्निनिरूपिता अधिकरणता अयोगोलक - महानसादिनिष्ठा । तन्निरूपिता हेतुतावच्छेदकसंयोगावच्छिन्ना आधेयता=वृत्तिता वह्नौ अस्ति । तथा च अत्र संयोगावच्छिन्नवृत्तिताप्रतियोगिकस्वरूपसंबंधेन सा वृत्तिता वनौ वर्तते ।
अथ धूमाभावनिरूपिता तादृशी अधिकरणता, भूतलादौ अयोगोलके च । तत्र भूतलादिनिरूपिता वृत्तिता यद्यपि वह्नौ न वर्तते । तथा पि अयोगोलकनिरूपिता संयोगावच्छिन्नवृत्तिता वह्नौ अस्ति । तथा च या हेत्वधिकरणनिरूपिता संयोगावच्छिन्नवृत्तिता वह्नौ मीलिता । सा एव साध्याभावाधिकरणनिरूपिता
XXXXXXXXXXXXXXXXXXXXX
વ્યાપ્તિપંચક ઉપર ચાન્દ્રશેખરીયા નામની સરળટીકા ૭ ૫૪
xxxxxxxxxxxxx0000000000000000000000000
0000000000000000
DOOOOOOOOOOOOOOX0000000000000000