________________
वद्विशेषणताविशेषोऽपि साध्यीयप्रतियोगितावच्छेदकसम्बन्धस्तेन सम्बन्धेनात्मत्वप्रकारकप्रमाविशेष्यत्वरूपसाध्याभाववति आत्मनि हेतोरात्मत्वस्य वृतेः ।
चान्द्रशेखरीया : न, भवतामयमाशयः यद् साध्याभाववृत्ति-यावत्साध्यनिरुपित-प्रतियोगितावच्छेदक संबंधेन साध्यतावच्छेदकसंबंध धर्मावच्छिन्नप्रतियोगिताक-साध्याभावस्य अधिकरणे हेतोः अवृत्तित्वम् व्याप्तिः इति वक्तव्यम् । परंतु एवंकरणे "आत्मा आत्मत्वप्रकारक-प्रमाविशेष्यता-अभाववान् आत्मत्त्वात्" इति हेतौ अव्याप्तिः भवति । "आत्मा सुखवान्" इति ज्ञानम् आत्मत्वप्रकारकप्रमा कथ्यते । तस्य विशेष्यः आत्मा, तस्मिन् विशेष्यता वर्तते, विशेष्यता च न जातिः, अत: सा आत्मनि स्वरूपसंबंधेन वर्तते । किन्तु सा विशेष्यता आत्मनि कालिकेन न वर्तते । यतो नित्ये पदार्थे कालिकेन न कोऽपि पदार्थः वसति । तथा च आत्मनि तादृशविशेष्यतायाः कालिकेन अभावः वर्तते । स च अभावो आत्मनि स्वरुपेण वर्तते । अत: साध्यतावच्छेदकसंबंधः स्वरुपः । अयं हेतुः सद्धेतुः । तथापि भवदुक्तन्यायेन अत्र व्याप्तिलक्षणं अव्याप्तम्। तथाहि तादृशविशेष्यताऽभावस्य कालिकेन अभाव: साध्याभावरूपः । स च न तादृशविशेष्यतारूपः, किन्तु भिन्नः विशेष्यता-अभावाभावरूपः एव । तस्य स्वरुपेण अभावो, विशेष्यता-अभावाभावाभावरूपो विशेष्यताअभावरुपो साध्यरूपो भविष्यति । यतो अभावस्य स्वरूपेण अभाव: प्रतियोगिरूपो भवति, न कालिकेन । एवं च विशेष्यता-अभावाभावनिष्ठा प्रतियोगिता साध्यनिरुपिता भवति । तत्प्रतियोगिता-अवच्छेदकः स्वरूपः, स्वरूपसंबंधेन च विशेष्यता-अभाव-अभावः साध्याभावरूपो विशेष्यतात्मको आत्मनि वर्तते एव । तत्र च आत्मनि हेतोः वृत्तित्वात् अव्याप्तिः ।
किन्तु यदि साध्यतावच्छेदकसंबंधावच्छिन्नप्रतियोगिताक-साध्याभाववृत्तियावत्साध्यनिरूपितप्रतियोगितावच्छेदकसंबंधेन..... अवृतित्वम् व्याप्तिः इति उच्यते, तदा न भवति अव्याप्तिः । तथाहि । ___ अत्र विशेष्यता-अभावः साध्यः । तस्मिन् साध्यता । तदवच्छेदक: स्वरूपसंबंधः । तथा च विशेष्यताअभावस्य कालिकेन अभावो न ग्रहीतुं शक्यः । किन्तु साध्यतावच्छेदकस्वरूपेणैव विशेष्यता-अभावस्य अभाव: गृह्यते । स च विशेष्यतारूपो भवति । तथा च अत्र साध्याभावो विशेष्यतारूपो मीलति । न पूर्ववत् विशेष्यता-अभावाभावरूपः । अथ विशेष्यतायाः यदि स्वरूपेण अभावो गृह्यते । तदा स साध्यरूपो न भवति । यतो विशेष्यतायाः कालिकेन अभावः साध्यः । एवं च विशेष्यतानिष्ठप्रतियोगिता साध्यनिरुपिता न भवति, यदि विशेष्यतायाः स्वरूपेण अभावो गृह्यते । यदा च विशेष्यतायाः कालिकेन अभावो गृह्यते, तदैव स साध्यरूपो भवति । तथा च विशेष्यतानिष्ठप्रतियोगिता विशेष्यताभावेन-साध्यरूपेण निरूपिता मीलति । तत्प्रतियोगितावच्छेदकस्तु कालिकः, तेन कालिकेन विशेष्यता-अभाव-अभावः साध्याभावो विशेष्यतारूपो न आत्मनि वर्तते, अपि तु अनित्ये घटादौ वर्तते । तस्मिन् आत्मत्वहेतोः अवृत्तित्त्वात् भवति लक्षणसमन्वयः ।
यान्द्रशेयरीया : उत्त२ : "मात्मा “अहं सुखवान् आत्मा" इत्याहि आत्मत्वा२४-प्रमाविशेष्यतायाः કાલિકસંબંધેન અભાવવાનું આત્મત્વા” આ અનુમાનમાં અવ્યાપ્તિ આવે. આ જ્ઞાન આત્મ–પ્રકારક પ્રમા છે.
COORORSROKARORNKIXxxxxxxxxORORAKORAKOROKRRISKKRKRKIOKRKARXXOOKSOOOOOOKSKOKSKIOKOOROMORRORORORAKIKONKARXXXKOKAKKKOREARRORKOROLORXOXOXxxxxx
વ્યાતિપંચક ઉપર ચાજશેખરીયા નામની સરળટીકા ૦ ૪૧ CHAKORORAKOROORKKARRORRRRRRRROORKKRKARIKONKRKERXXXXXCORRORSCORRISORCARRORROROMORRORIRIRIKOIROHOROKOKAKIKOKOORXXXXXXXXNOKRANKORORORSCORROcxoxomxom