________________
000000000
ચાન્દ્રશેખરીયા : ઉત્તર ઃ ભાઈ ! તમને ખોટા પાડવા અમે આ અર્થ કરીએ છીએ એવો આરોપ ન મુકો, કેમકે આ અર્થ તો પહેલેથી જ મહાપુરુષોએ સિદ્ધ કરેલો છે. વર્ધમાન ઉપાધ્યાયે જે પ્રકાશટીકા રચી છે અને તેની ઉ૫૨ રઘુનાથશિરોમણીએ જે દીદ્ધિતિ ટીકા રચી છે. તેમાં તેઓએ જ આ સાબિત કરેલ છે કે આ નિયમના કર્મધારયપદનો “બહુવ્રીહિભિન્નસમાસ” એમ અર્થ કરવો.
चान्द्रशेखरीया : तयोः द्वयोः ग्रन्थयोः मध्ये अयं चर्चः । द्रव्यभिन्नानां षट्पदार्थानां साधर्म्यम् “अगुणवत्वम्” उक्तम् । अस्य कोऽर्थः करणीयः इति प्रश्नः । यदि गुणस्य अभाव:, अगुणम्, तत् अस्ति यस्य स अगुणवान्, तस्य भावः, इत्येवं व्युत्पत्तिः क्रियते । तदा प्रथमक्षणीयो घटोऽपि गुणाभाववान्=अगुणवान् अस्ति एव । एवं प्रथमक्षणीयघटादिद्रव्येषु एतत्साधर्म्यस्य अतिव्याप्तिः भवति । तच्च न युक्तम् । अतः एषा व्युत्पत्तिः न स्वीकर्तव्या । किन्तु केन प्रतिबन्धकेन तस्याः स्वीकारः प्रतिबध्यते ? इति चिन्तायां सत्यां "पूर्वोक्तानुशासननिष्ठस्य कर्मधारयपदस्य बहुव्रीहिभिन्नसमासः" इति अर्थः कर्तव्यः, इति निर्णीतम् । तथा च "गुणस्य अभाव:" इति समासोऽपि बहुव्रीहिभिन्नसमासः एव । अतः तस्य मत्वर्थीय प्रत्ययो न कर्तुं शक्यते । अतः उपर्युक्ता असद्व्युत्पत्तिः निरस्ता भवति ।
किन्तु यदि बहुव्रीहिः तदर्थप्रतीतिकरः भवति, तदा एव मत्वर्थीयनिषेधः तस्मिन् नियमे कृतः, अतः अत्र बहुव्रीहिकरणपूर्वकं अतिव्याप्तिदोषनिरासः करणीयः । अतः स्वमतेन अगुणवत्वम् इति साधर्म्यस्य सम्यक्व्युत्पत्तिं दर्शयन्ति तस्मिन् ग्रन्थे ते महापुरुषाः । तथा हि । गुणः अस्ति अस्य इति गुणवान् । न गुणवान्=अगुणवान्, तस्य भावः अगुणवत्तत्वम् एवं प्रथमं मत्वर्थीयबहुव्रीहिकरणानन्तरं पश्चात् नञ्तत्पुरुषसमासादरणेन दोषनिरासोऽपि भवति = असम्यक्व्युत्पत्तिनिरासोऽपि भवति । यतो बहुव्रीहि समासः एव तदर्थप्रतीतिकरः अत्र अस्ति । अतो गुणस्याभाव:.... इत्यादिका व्युत्पत्तिः न भवितुं शक्या ।
न च तथापि “प्रथमक्षणीयो घटः गुणवान् न" इति वक्तुं शक्यत्त्वात् अगुणवत्पदेन घटादयोऽपि गृह्यन्ते एव, तथा च अतिव्याप्तिः तदवस्था एव इति वाच्यम् । घटः यदि पटः न, तदा कदापि स घटः पटो न भवति। पुस्तकं यदि पटः न तदा कदापि तत् पुस्तकं पटो न भवति । तथा च यत्र पदार्थे यस्य पदार्थस्य भेदो वर्तते। स भेदो तत्र पदार्थे सर्वदा एव वर्तते । अतः भेदो व्याप्यवृत्तिः गण्यते । प्रकृते च "प्रथमक्षणीयो घटः न गुणवान्" इति अस्य गुणवद्भेदवान् इत्येव अर्थः । अत्र नञ्प्रयोगस्य भेददर्शकत्त्वात् । स एव घटो द्वितीयक्षणे “गुणवान् न= गुणवद्भेदवान्" इति वक्तुं न शक्यते । अतः द्वितीयक्षणे "स गुणवद्भेदः तस्मिन् घटे नास्ति” इति मन्तव्यम् एवं च स भेदः अव्याप्यवृत्तिः भूतः । तथा च सिद्धान्तविरोधः । न च स विरोधः इष्टः अतः तस्मिन् घटे प्रथमक्षणेऽपि "गुणवान् न,” इत्यादिको व्यवहारः न कर्तव्यः । एवं च तस्मिन् घटे प्रथमक्षणेऽपि गुणवद्भेदो नास्ति एव । तथा च अगुणवत्पदेन घटादयो न ग्रहीतुं शक्याः । किन्तु गुणादिषट्पदार्थाः एव, ते पदार्थाः सर्वदा एव गुणवद्भेदवन्तः । एवं च घटादिद्रव्येषु अगुणवत्वम् साधर्म्यम् न अतिव्याप्तम् एवं च सर्वं सूपपन्नम् ।
ચાન્દ્રશેખરીયા ઃ તેની ચર્ચા આ પ્રમાણે છે. ત્યાં દ્રવ્ય' સિવાયના છ પદાર્થોનું સાધર્મ્સ “અગુણવત્વમ્”
*x*x*x*x*x*x00000000000000000
*****************************************
વ્યાપ્તિપંચક ઉપર ચાન્દ્રશેખરીયા નામની સરળટીકા ૭ ૧૦
xxxxxxxxxxxxxxxxxxxxxxx
XXXXXXXX***********
xxxxxxxxxxxxxxxxxxxxxxXXXXXX