________________
तद्वन्निष्ठप्रतियोगिव्यधिकरणाभावप्रतियोगितानवच्छेदकत्वं, तद्वति निरवच्छिन्नवृत्तिमान् योऽभावस्तत्प्रतियोगितानवच्छेदकत्वं वा । प्रकृते व्यापकतायां प्रतियोगिवैयधिकरण्यस्य निरवच्छिन्नवृत्तित्वस्य वा प्रवेशे प्रयोजनविरहात् । तेन पृथिवीकपिसंयोगादित्यादौ नातिव्याप्तिः, कपिसंयोगाभावत्वस्य निरुक्तव्यापकतावच्छेदकत्वविरहादित्येव परमार्थः ।
चान्द्रशेखरीया : ननु तादृशाधिकरणतायाः व्यापकतावच्छेदकं यद्धर्मावच्छिन्नाभावत्वम् तद्धर्मवत्वम् इत्यादि उक्तं भवता । किन्तु, व्यापकतावच्छेदकत्वं किं नाम । यदि तादृशाधिकरणतावनिष्ठप्रतियोगिव्यधिकरण-अभावप्रतियोगितानवच्छेदकत्वम् तादृशाधिकरणता-व्यापकतावच्छेदकत्वम् इति मन्यते । तदा यद्यपि “पर्वतो वह्निमान् धूमात्" इत्यादौ वह्नि-अभावाधिकरणतावति भूतलादौ न धूमाभावाभावः अस्ति । किन्तु प्रतियोगिव्यधिकरणः वह्नि-अभावादिः एव । तत्प्रतियोगितावच्छेदकं वह्नित्वम्, तत्प्रतियोगिताअनवच्छेदकं तु धूमत्वावच्छिनप्रतियोगिताकधूमाभावत्वं अस्ति । अर्थात् तत् धूमाभावत्वं व्यापकतावच्छेदकं भवति, तथा च अत्र यद्धर्मपदेन धूमत्वस्य ग्रहीतुं शक्यत्त्वात्, तद्वत्वम् च धूमे सत्त्वात् लक्षणसमन्वयो भवति । किन्तु 'पृथ्वी कपिसंयोगात्' इति अत्र अतिव्याप्तिः भवति । यत्र कपिसंयोगः तत्र पृथ्वीत्वम् इति तु न सम्यक् । कपिसंयोगवति जलादौ पृथ्वीत्वाभावात् । अतो इदं असत्स्थानम् । तथापि, अत्र लक्षणं सङ्गच्छते । तथाहि पृथ्वीत्वाभावाधिकरणतावति जलादौ कपिसंयोगाभावाभाव: कपिसंयोगरूपः वर्तते । किन्तु स कपिसंयोगाभावात्मकस्वप्रतियोगिसमानाधिकरणो अस्ति । प्रतियोगिव्यधिकरणो नास्ति । अतः अयं अभाव: न गृह्यते । किन्तु पृथ्वीत्वाभावादिः एव प्रतियोगिव्यधिकरणः गृह्यते । तत्प्रतियोगितावच्छेदकं पृथ्वीत्वत्वम् । अनवच्छेदकं कपिसंयोगाभावत्वम् । तथा च, कपिसंयोगत्वावच्छिन्नप्रतियोगताक-कपिसंयोगाभावत्वम् अत्र व्यापकता-अवच्छेदकं मीलितम् । अत: यद्धर्मपदेन कपिसंयोगत्वस्य ग्रहीतुं शक्यत्त्वात्, कपिसंयोगत्वधर्मस्य च कपिसंयोगात्मके हेतौ वर्तमानत्त्वात्, लक्षणसमन्वयात् अतिव्याप्तिः ।। ___ यदि "तादृशाधिकरणतावति निरवच्छिन्नवृत्तितावान् यः अभावः, तत्प्रतियोगितानवच्छेदकत्वम् तादृशाधिकरणताव्यापकतावच्छेदकत्वम्" इति उच्यते, तथापि तथैव अतिव्याप्तिः । पृथ्वीत्वाभाववति जलादौ कपिसंयोगाभावाभावः कपिसंयोगात्मकः न निरवच्छिन्नवृत्तितामान् । अतः स न गृह्यते । किन्तु निरवच्छिन्नवृत्तितावान् पृथ्वीत्वाभावः गृह्यते । तथा च पूर्ववत् अतिव्याप्तिः भवति इति चेत् अत्र उच्यते । अत्र व्यापकतावच्छेदके प्रतियोगिव्यधिकरणत्वस्य निरवच्छिनवृत्तित्वस्य वा अभावविशेषणत्वे प्रयोजनाभावात् न अस्माभिः तत निवेश्यते । किन्त तादशाधिकरणतावतनिष्ठ-अत्यन्ताभावप्रतियोगिता-अनवच्छेदकत्वम तादृशाधिकरणताव्यापकतावच्छेदकत्वम् इत्येव मन्यामहे । पृथ्वीत्वाभावाधिकरणतावति जलादौ निष्ठः कपिसंयोगाभावाभावः कपिसंयोगात्मकः । तत्प्रतियोगितायाः अवच्छेदकं कपिसंयोगाभावत्वम् । अतो न तत् व्यापकतावच्छेदकं भवति । अतो न यद्धर्मपदेन कपिसंयोगत्वं ग्रहीतुं शक्यम्, येन अतिव्याप्ति: स्यात् । तथा च निस्क्तसाध्याभावाधिकरणतावनिष्ठ-अत्यन्ताभावप्रतियोगितानवच्छेदकं हेतुतावच्छेदकसंबंधाCWXXIXXKAKIKARRAOXOXOROKAROORKOROKAKKKAKKAKKAKORAKIKEKOIRROROXOOOOOOXOXOXOXOROSCONORAKOROKAKIRONOKARORIROMORONOMOTOROROXIRORAKIKOKAR
વ્યાતિપંચક ઉપર ચાદ્રશેખરીયા નામની સરળટીકા - ૫
comxxxsexcomwwxccomoOKOKAROKERSIONSORRORAKARIXXXSKRROROROMOR
R ORSCORROxerciscorexSRORORORSMORAKSHARIRIROMIRRORSCORECORNOKAROKAR