________________
दीधिति: १९
शब्दवैयर्थ्यस्याकिञ्चित्करत्वात् । ननु एवं सति विंशतितमकारिकायां प्रतिपादयिष्यमाणे "स्वरूपसम्बन्धेन गगनादेर्वृत्तित्वे तु” इति ग्रन्थे विरोधापत्तिर्भवति । अयमाशयः पूर्वपक्षकथितनिरूक्तदोषनिवारणाय अष्टादशकारिकाप्रान्ते साध्यतावच्छेदकसामान्ये...इत्यादि प्रत्युत्तरं दास्यते । तादृशविवक्षानुसारेण तु निरुक्तानुमाने गगनाभावो लक्षणघटको भविष्यति । तथाहि गगनं कालिकेन कुत्रापि न वर्तते इति एकं मतं । तथा च साध्यतावच्छेदकसम्बन्धसामान्ये यादृशप्रतियोगितावच्छेदका - वच्छिन्नप्रतियोगिकत्वहेत्वधिकरणीभूतयत्किञ्चिद्व्यक्त्यनुयोगिकत्वसामान्योभयाभाव:, तादृशप्रतियोगितानवच्छेदकं साध्यतावच्छेदकमिति लक्षणम् । साध्यतावच्छेदककालिकसम्बन्धसामान्ये गगननिष्ठप्रतियोगितावच्छेदक-गगनत्वावच्छ्न्निगगनप्रतियोगिकत्वं नास्ति, अत: उभयाभावो मीलितः । तथा च गगननिष्ठप्रतियोगिता लक्षणघटकीभूता । तदनवच्छेदकं घटत्वं इति घटवान् महाकालत्वादित्यादौ नाव्याप्तिः इति तत्र प्रतिपादयिष्यते । तदनु च येषां मते गगनं कालिकेनापि अन्यत्र वर्तते, तेषां मते तु कालिकसम्बन्धसामान्ये गगनप्रतियोगिकत्वमस्ति, अतो नोभयाभावो घटते । तथा च गगनीयप्रतियोगितामादाय लक्षणसमन्वयो भवति इति पूर्वपक्षाभिप्रायं मनसिकृत्वा दीधितिकारः विंशतितमकारिकायां अभिनवं प्रत्युत्तरं प्रतिपादयिष्यति । किन्तु यदि अत्र पूर्वपक्षस्य 'महाकालानुयोगिककालिक एव साध्यतावच्छेदकसम्बन्धत्वेन इष्ट:' इति मन्येत, तदा तु विंशतितमकारिकायां प्रतिपादितं तत् समाधानं व्यर्थमेव भवेत्, प्रथमप्रत्युत्तरेणैव समाधानसंभवात् । तथा हि गगनं कालिकेनान्यत्र वर्तते इति मतेऽपि साध्यतावच्छेदकमहाकालानुयोगिककालिकसम्बन्धसामान्ये महाकालभेदविशिष्टघटप्रतियोगिकत्वं नास्ति एव । तादृशसम्बन्धेन महाकालभेदविशिष्टघटस्य कुत्राप्यवर्तमानत्वात् । इत्थं च उभयाभावो मीलितः । तथा च महाकालभेदविशिष्टघटनिष्ठप्रतियोगिता एव लक्षणघटकत्वेन ग्रहीतुं शक्या । तदनवच्छेदकं तु शुद्धघटत्वमिति लक्षणसमन्वयो भवति । एवं च गगनस्य कालिकेन वृत्तितामतेऽपि प्रथमसमाधानेनैवाव्याप्तिनिवारणसंभवात् दीधितिकारेण गगनस्य कालिकेन वृत्तितामतेऽपि विंशतितमकारिकायां द्वितीयसमाधानं यत् प्रतिपादितं तद्व्यर्थमेव भवेत् ।
अतो ज्ञायते यत् पूर्वपक्षस्य कालिक एव सम्बन्धः साध्यतावच्छेदकत्वेनाभिमतः । न तु महाकालानुयोगिककालिकः, तथा च कालिकेन घटवान् महाकालत्वात् इत्यत्रैवाव्याप्तिः प्रसिद्धा करणीया । किन्तु महाकालभेदविशिष्टघटाभावमादाय लक्षणसमन्वयसंभवात् अव्याप्तिकथनं न संजाघटीति इति चेत् अत्रोच्यते ।
-
ચન્દ્રશેખરીયા મધ્યસ્થ : સારું, ત્યારે એ નકામા પદો કાઢી નાંખો. પૂર્વપક્ષને તો અવ્યાપ્તિ આપવા સાથે ४ अम छे.
પ્રશ્ન : ના એમાં મોટો વાંધો આવે, કેમકે પૂર્વપક્ષે જે આપત્તિ આપી છે. તેના ઉત્તર રૂપે આગળ દીષિતિકાર કહેશે કે“સાધ્યતાવચ્છેદકસંબંધસામાન્યમાં નિરુક્તપ્રતિયોગીપ્રતિયોગીકત્વ - હેત્વધિકરણીભૂતયત્કિંચ્ચિદ્ગત્સ્યનુયોગિકત્વ-સામાન્યોભયાભાવ મળે. તાદશપ્રતિયોગિતાનો અનવચ્છેદક સાધ્યતાવચ્છેદક બનવો જોઈએ. એવી વિવક્ષા છે.” (નિરુક્ત=યાદશપ્રતિયોગિતાવચ્છેદકાવચ્છિન્નપ્રતિયોગીકત્વ) હવે કાલિકસંબંધમાં ગગનનિષ્ઠપ્રતિયોગિતાવચ્છેદકગગનત્વાવચ્છિન્નગગન-પ્રતિયોગીકત્વ નથી. માટે ઉભયાભાવ મળી ગયો. એટલે ગગનનિષ્ઠ પ્રતિયોગિતા લઈ શકાય. અને તેનો અનવચ્છેદક ઘટત્વાદિ બની જતાં લક્ષણ
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ° ૮૯