________________
दीधिति: १९
स्यादित्यस्यैव सम्यक्त्वे — 'अष्टद्रव्यातिरिक्तत्वा' ऽभिधानस्य सन्दर्भविरोधापत्तेः
चन्द्रशेखरीया : ननु एवं सति पूर्वपक्षेण प्रोक्तानि अष्टद्रव्यातिरिक्तद्रव्यात्मक विशेषणानि व्यर्थानि भवेयुः केवलं "कालमात्रवृत्तिधर्मस्य महाकालानुयोगिककालिकेनाव्याप्यवृत्ति साध्यं न किमपि व्यापकं स्यादि "त्येवोच्यमानं सम्यग् भवेत् । न तत्र कोऽपि दोषः संभवति । तथा हि कालमात्रवृत्तिधर्माः घटत्वादयः, तथा च महाकालानुयोगिककालिकेन गोत्वादिमान् घटत्वाद् इत्यादीन्यनुमानानि अपि गृह्यन्ते । तत्र घटत्वाधिकरणे घटे महाकालानुयोगिककालिकेन तु गोत्वस्याभाव एव वर्तते । अतः साध्याभावस्यैव लक्षणघटकत्वात् न तद् गोत्वं घटत्वव्यापकं भवेत् । एवं महाकालानुयोगिककालिकेन घटवान् घटत्वात्, पटवान् पटत्वादित्यादौ सर्वत्र साध्याभावस्यैव लक्षणघटकत्वात् तानि सर्वाणि साध्यानि हेतुव्यापकानि न भवन्ति । पूर्वं तु कालिकेन साध्यं आसीत्, अतो गोत्वसाध्यके घटत्वहेतौ व्याप्तिलक्षणं समन्वितमभवत् । तत्र घटत्वाधिकरणे घटे कालिकेन गोत्वाभावस्य लक्षणघटकत्वेन ग्रहीतुं अशक्यत्वात् अतीतघटाभावमादाय लक्षणसमन्वयात् । अतो अष्टद्रव्यातिरिक्तद्रव्यात्मकादीनि पदानि घटत्वादीनां हेतुत्वनिवारणाय प्रोक्तानि । इदानीं तु घटत्वादीनां हेतुत्वेऽपि न गोत्वादीनि साध्यानि व्यापकानि भवन्ति इति अनन्तरमेव दर्शितं । अतो अष्टद्रव्यातिरिक्तादिपदानि निरर्थकानि भवेयुः । तानि विनैवाव्याप्तिप्रदर्शनसंभवात् इति चेत्
ચન્દ્રશેખરીયા ઃ પ્રશ્ન ઃ તો તો પછી તમે જે “અષ્ટદ્રવ્યાતિરિક્ત-દ્રવ્યાત્મક” એ જે પદો લખ્યા છે એ નકામા બને,કેમકે એના વિના પણ અવ્યાપ્તિ ઘટી શકે. તે ના પ્રમાણે “કાલમાત્રવૃત્તિધર્મ” એ પદ હેતુબોધક તરીકે બાકી ૨હે. એવા ધર્મ તરીકે તો ઘટત્વ, પટત્વ, મહાકાલત્વાદિ બધા આવે. પણ હવે સાધ્યતાવચ્છેદક મહાકાલાનુયોગિકકાલિક લો છો. એટલે મહાકાલાનુયોગિકકાલિકેન ઘટવાન્ ઘટત્વા/પટા/મહાકાલત્વાત્ વગેરે દરેક સ્થાને તે કોઈપણ સાધ્ય એ હેતુને વ્યાપક ન જ બને, કેમકે ઘટત્વાધિકરણ ઘટમાં મહાકાલાનુયોગિક કાલિકેન તો ઘટાભાવ મળી જ જવાનો એ રીતે પટસાધ્યકસ્થલે પટાભાવ પણ મળી જવાનો. આમ, બધી જ જગ્યાએ તે સાધ્યો વ્યાપક ન જ બને. અને તો પછી “કાલમાત્રવૃત્તિધર્મસ્ય મહાકાલાનુયોગિકકાલિકેન અવ્યાપ્યવૃત્તિ ન કિમપિ વ્યાપક સ્યાત્” એટલું જ કથન યોગ્ય બને. અને તો પછી અદ્રવ્યાતિરિક્તાદિ પદો વ્યર્થ બની જવાની આપત્તિ આવે.
जगदीशी
'स्वरूपसम्बन्धेन गगनादेर्वृत्तित्वे तु' इत्यग्रिमग्रन्थविरोधप्रसङ्गाच्च । कालिकसम्बन्धेन गगनादेर्वृत्तिमत्त्वेऽपि तादृशसम्बन्धसामान्ये,- महाकालान्यत्वविशिष्टघटत्वावच्छिन्नप्रतियोगिताकत्वविरहात्तादृशघटत्वावच्छिन्नाभावस्यैव निरूक्तक्रमेण प्रतियोगिव्यधिकरणत्वसम्भवेन पूर्वमतस्यैव सम्यक्त्वादिति चेन्न,
चन्द्रशेखरीया : एवं तर्हि पूर्वपक्षाणामयमेवाशयो मन्तव्यः, यत् कालमात्रवृत्तिधर्मस्य महाकालानुयोगिक कालिकेन न किमपि अव्याप्यवृत्ति साध्यं व्यापकं स्यादिति । भवतु च एतादृगाशयस्वीकारेऽष्टद्रव्यातिरिक्तादिपदानां वैयर्थ्यं । को दोषः। अव्याप्तिप्रदानस्यैव पूर्वपक्षेणाभिमतत्वात्, સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૭ ૮૮