________________
दीधिति:१३
રિદ્ધાનું લક્ષણ ચક્ટ્રોબરીયા નામની ટીકા
0000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000
जागदीशी - अत्र नव्याः,-"यथाश्रुतस्य' प्रागुक्तक्रमेण प्रतियोगिव्यधिकरणाभावस्याप्रसिद्धया 'वह्निमान् धूमा' दित्यादौ सर्वत्रासम्भवः स्यात् । . अतो-यत्किं ञ्चित्स्वप्रतियोगित्वं याद्दशसम्बन्धावच्छिन्नं ताद्दशसम्बन्धेनस्वप्रतियोगितावच्छेदकावच्छिन्नसामान्यानधिकरणं यत् साधनाधिकरणं,-तन्निष्ठाभावस्य साध्यतावच्छेदकसम्बन्धावच्छिन्न-प्रतियोगितानवच्छेदकत्वमेव लक्षणे (साध्यतावच्छेदके) प्रवेशनीयम्;__ तथा च सद्धेतुस्थल इव 'द्रव्यत्वाभाववान् सत्त्वा'दित्यत्रापि संयोगेन घटाद्यभाव एव प्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिव्यधिकरणः,
तदीयं (हि) घटनिष्ठप्रतियोगित्वं याद्दशसंयोगसम्बन्धे नावच्छिन्नं तादृशसंयोगसम्बन्धसामान्येन साधनवतो द्रव्यस्य तदीयप्रतियोगितावच्छेदकावच्छित्रसामान्याधिकरणत्वमक्षतमेव । ___ न चैवमपि तदीयस्य साध्यतावच्छेदकीभूतस्वस्मसम्बन्धावच्छिन्न प्रतियोगित्वस्याप्रसिद्धया न दोषसङ्गतिः, पूर्वक्षणवृत्तित्वादिविशिष्ट स्य) घटाद्यभावस्याभावे एव तत्प्रसिद्धेः" इत्याहुः ।
0000000000000000000000000000000000000000000000000000000000000000000000000000000000
चन्द्रशेखरीया : अत्र नव्याः यदि हि "स्वप्रतियोगितावच्छेदकावच्छिन्न-प्रतियोगि-सामान्यानधिकरणहेत्वधिकरणवृतिरभावः" इत्येव उच्यते, तदा तु वह्निमान् धूमात् इत्यादि सर्वत्रैव अव्याप्तिः भवेत् । यतो यदि घटाभावो लक्षणघटकत्वेन गृह्यते तदापि पर्वते पटवृत्तित्वविशिष्टस्य घटाभावस्याभावो घटाभावप्रतियोगिस्वरूपो विद्यते एव । अतः "पर्वतः न प्रतियोगिसामान्यानधिकरणः" इत्यादि भवदुक्तरीत्यैव न कोऽपि अभावो लक्षणघटको भविष्यति । तथा चाव्याप्तिरेव । अतः तत्र परिष्कारः कर्तव्य एव । स चायम् - यत्किचित्स्वप्रतियोगिता यादृशसम्बन्धावच्छिन्ना, तादृशसम्बन्धेन स्वप्रतियोगितावच्छेदकावच्छिन्नसामान्यानधिकरणं यत् हेत्वधिकरणं, तन्निष्ठाभावस्य साध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगितानवच्छेदकत्वं साध्यतावच्छेदके इति । अस्य अयमर्थः । योऽभावः लक्षणघटकत्वेन ग्रहीतुं इष्यते। तस्य कापि प्रतियोगिता ग्राह्या । सा यादृशसम्बन्धावच्छिन्ना भवति, तेन सम्बन्धेन तस्याभावस्य सर्वेषां प्रतियोगिनां सर्वप्रतियोगितावच्छेदकावच्छिन्नरूपाणां अनधिकरणं यत् हेत्वधिकरणं, तन्निष्ठस्य तादृशाभावस्य साध्यतावच्छेदकसम्बन्धावच्छिन्ना या काऽपि प्रतियोगिता, तदनवच्छेदकं साध्यतावच्छेदकं इति । तथाच अव्याप्तिः न भवति । घटाभावस्य यत्किचित्प्रतियोगिता घटनिष्ठा ग्राह्या, सा च संयोगावच्छिन्ना । तेन संयोगेन सम्बन्धेन घटाभावस्य सर्वेऽपि प्रतियोगिनः “घटाः पटवृत्तित्वविशिष्ट-घटाभावाभावश्च" हेत्वधिकरणे न वर्तन्ते। यतो घटाः संयोगेन पर्वते न सन्ति, विशिष्टघटाभावाभावश्च स्वरुपेणैव वर्तते । अतः तस्य संयोगेन कुत्रापि अर्वतमानत्वात् स पर्वतेऽपि नास्ति । इत्थं च संयोगेन सर्वप्रतियोग्यनधिकरणं हेत्वधिकरणं पर्वतः, तस्मिन् स
0
0 0000000000
todos
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા - ૧
80