________________
दीधिति:१३
ई यत्प्रतियोगितावच्छेदकत्वं तन्निस्तपतस्वरूपसम्बन्धेनैव निस्तप्रतियोगितावच्छेदकत्वस्याऽभावः साध्यतावच्छेदकधर्मे वक्तव्यः,
तेन 'वह्निमान् घूमा'दित्यादौ यत्र वह्नित्वादिनिसपितसमवायादिसम्बन्धेन वह्नित्वादेः साध्यतावच्छेदकत्वं, तत्र ताद्दशसम्बन्धावच्छिन्नस्यप्रतियोगिव्यधिकरणहेतुमन्निष्ठाभावर प्रतियोगितावच्छेदकत्वस्याप्रसिद्धावपि न क्षतिरिति ध्येयम् ।
mmmmmmmmmmmmmmmmmmmmmmmmmmm
चन्द्रशेखरीया : ननु तथापि यत्र वह्नित्वनिरूपितसमवायसम्बन्धेन वह्नित्वविशिष्टः वह्निः साध्यः, तत्र धूमहेतुके स्थले अव्याप्तिः । अत्र साध्यतावच्छेदकं वह्नित्वं न केवलं शुद्धसमवायेन वह्नौ गृह्यते, किन्तु वह्नित्वनिरूपितसमवायेनैव । तथा च अत्र साध्यतावच्छेदकता-घटकसम्बन्धः वह्नित्वनिरूपितसमवायः । एवं च यथा संयोगेन घटपदादयः प्रभूताः पदार्थाः भूतलादौ वर्तितुमर्हाः, किन्तु घटनिरूपितसंयोगेन तु केवलं घट एव वर्तितुं शक्यः । पटादिस्तु पटनिरूपितसंयोगादिनैव वर्तते । एवमत्राऽपि समवायेन रूपत्ववह्नित्वघटपटादयः प्रभूताः पदार्थाः रूपादिषु वर्तन्ते । किन्तु वह्नित्वनिरूपितसमवायेन तु केवलं वह्नित्वमेव वह्नौ वर्तते । रूपत्वादिस्तु रूपत्वनिरूपितसमवायेन वर्तते । इत्थं च अत्र यद्यपि वह्नयभावो न लक्षणघटकः, तत्प्रतियोगितावच्छेदकवह्नित्वावच्छिन्नस्य वह्नः अधिकरणमेव धूमाधिकरणं भवतीति कृत्वा । किन्तु घटाद्यभावः । तस्य प्रतियोगिता घटे वर्तते । तत्प्रतियोगितावच्छेदकता घटत्वे वर्तते । किन्तु सा न साध्यतावच्छेदक ताघटक सम्बन्धावच्छिन्ना । यतः साध्यतावच्छेदक ताघटक सम्बन्धस्तु वह्नित्वनिरूपितसमवायः, तेन सम्बन्धेन घटत्वस्य कुत्रापि अवर्तमानत्वात्, घटत्वनिष्ठा प्रतियोगितावच्छेदकता वह्नित्वनिरूपितसमवाया वच्छिन्ना न भवति । अनयैव रीत्या सर्वाः प्रतियोगितावच्छेदकताः लक्षणघटकीभूताः न वह्नित्वनिरूपितसमवायावच्छिन्नाः इति लक्षणघटकीभूतायाः साध्यतावच्छेदकसम्बन्धावच्छिन्नायाः प्रतियोगितावच्छेदकताया असंभवात् अव्याप्तिर्भवति एव । यदि हि वह्नयभावो लक्षणघटकः भवेत् तदैव वह्नित्वनिष्ठा वन्यभाव-प्रतियोगितावच्छेदकता वह्नित्वनिरूपितसमवायावच्छिन्ना भवेत्, किन्तु सः अभावो लक्षणघटकः न भवत्येव इति निरूपितं प्राक् इति चेत् न, "साध्यतावच्छेदकताघटकसम्बन्धावच्छिन्ना या प्रतियोगितावच्छेदकता, तन्निरूपितस्वरूपसम्बन्धेनैव निरूक्त प्रतियोगितावच्छेदकताऽभावः एव साध्यतावच्छेदक धर्मे वक्तव्यः" इति लक्षणस्य विवक्षितत्वात् साध्यतावच्छेदकताघटके न वह्नित्वनिरूपितसमवायेनावच्छिन्ना प्रतियोगितावच्छेदकता तु वह्नित्वे एव वर्तते । लक्षणघटकस्तु अभावः घटाभावादिरेव इति तत्प्रतियोगितावच्छेदकता स्वरूपेण घटत्वादौ वर्तते । अतः वह्नित्वनिरूपितसमवायावच्छिन्न-प्रतियोगितावच्छेदकतानिरूपितेन स्वरूपसम्बन्धेन लक्षणघटकप्रतियोगितावच्छेदकतायाः अभावः एव वह्नित्वे वर्तते इति लक्षणसमन्वयात् नाव्याप्तिः । अत्रेदमवधेयं यद्यपि लक्षणघटको यः अभावः, तस्यैव साध्यतावच्छेदकता-घटकसम्बन्धावच्छिन्ना प्रतियोगितावच्छेदकता ग्राह्या । यथा रूपत्वविशिष्टज्ञानाभावः यत्र लक्षणघटकः, तत्रापि प्रतियोगिता-अवच्छेदकता रूपत्वनिष्ठा विषयितासम्बन्धावच्छिन्ना भवति, न तु साध्यतावच्छेदकघटकसम्बन्धावच्छिना इति न सा ग्रहीतुं शक्या, किन्तु घटाभावप्रतियोगितावच्छेदकता एव
lammmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
EDIO
Ammmm
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૨૪ TODodddddddamaadamdaOOOOOOOOOOOOOOOOOOOddddddddddddOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOO000000000000000000000000000000000018