________________
दीधिति:१९
dummammmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm 1000000000000000000000000000
चन्द्रशेखरीया : ननु यादृशप्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिक सम्बन्ध-सामान्ये हेत्वधिकरणयत्किचिद्व्यक्त्यनुयोगिकसाध्यतावच्छेदकसम्बन्धत्वाभावः, तादृशप्रतियोगितानवच्छेदकत्वं साध्यतावच्छेदके विवक्ष्यताम् । तावतैव लक्षणघटनसंभवात् गुरुभूतलक्षणाश्रयणमयुक्तं । वह्निमान् धूमादित्यत्र वह्नयभावो लक्षणघटको न भवति । तथा हि वह्निप्रतियोगितावच्छेदकं यत् वह्नित्वं, तदवच्छिन्नः वह्निः, स प्रतियोगि यस्य, तादृशः सम्बन्धः संयोगः, समवायः, तादात्म्यम्, कालिकश्च । तत्र हेत्वधिकरणं पर्वतः, तदनुयोगिकः साध्यतावच्छेदकसम्बन्धः वह्निसंयोगः । स एव वह्निप्रतियोगिकसम्बन्धसामान्यान्तर्गतः । तथा च वह्निप्रतियोगिक सम्बन्धसामान्यान्तर्गते पर्वतीय वह्निसं योगे. पर्वतानुयोगिक - साध्यतावच्छेदकसंयोगसम्बन्धत्वस्य सत्वात् तादृशसम्बन्धसामान्ये तादृशसम्बन्धत्वाभावो न वर्तते । अतो न वह्निनिष्ठप्रतियोगिता ग्रहीतुं शक्या । किन्तु घटाभावीयप्रतियोगितावच्छेदक-घटत्वावच्छिन्नघटप्रतियोगिकाः सम्बन्धाः घटसंयोगः, घटसमवायः, घटतादात्म्यं, घटीयकालिकश्च । तत्र समवायतादात्म्यकालिकेषु तु साध्यतावच्छेदकसम्बन्धत्वाभावःस्फुट एव । घटीयसंयोगे यद्यपि साध्यतावच्छेदकसंयोगसम्बन्धत्वं वर्तते । तथापि घटीयसंयोगः पर्वतानु यो गिको न भवति । अतः तस्मिन् पर्वतानुयोगिकसाध्यतावच्छेदकसम्बन्धत्वस्याभाव एव वर्तते । तथा च घटप्रतियोगिकसम्बन्ध-सामान्ये तादृशसम्बन्धत्वाभावसत्वात् घटीयप्रतियोगिता एव लक्षणघटका, तदनवच्छेदकं वह्नित्वमिति लक्षणसमन्वयात् नाव्याप्तिः । एवं कालिकेन घटवान् महाकालत्वात् इत्यत्र गगनाभावप्रतियोगितावच्छेदक गगनत्वावच्छिन्नगगनप्रतियोगिकं सम्बन्धसामान्यं तादात्म्यं, संयोगेन गगनस्य वृत्तितामते संयोगश्चापि, न तु कालिकः । तथा च तादृशसम्बन्धसामान्ये तादात्म्यसंयोगादिस्वरूपे कालिकसम्बन्धत्वाभावादेव महाकालानुयोगिककालिकसम्बन्धत्वाभावो वर्तते । अतो गगननिष्ठा प्रतियोगिता गृह्यते, तदनवच्छेदकं घटत्वमेव साध्यतावच्छेदकमिति नाव्याप्तिः । ___अथवा हेत्वधिकरणीभूतयत्किंचिद्व्यक्त्यनुयोगिकसाध्यतावच्छेदकसम्बन्धसामान्ये यादृशप्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिकत्वाभावः, तादृशप्रतियोगितानवच्छेदकं साध्यतावच्छेदकं इत्यपि वक्तुं शक्यते । 'वह्निमान् धूमादि'त्यत्र पर्वतानुयोगिकसाध्यतावच्छेदकसंयोगसामान्यान्तर्गते पर्वतीयवह्निसंयोगे वह्नित्वावच्छिन्नपर्वतीयवह्निप्रतियोगिकत्वं वर्तते । अतः साध्यतावच्छेदकतादृशसम्बन्धसामान्ये तादृशप्रतियोगिकत्वाभावो नास्ति । तथा च न वह्नयभावो लक्षणघटकः, किन्तु पर्वतानुयोगिकसंयोगसम्बन्धसामान्ये घटत्वावच्छिन्नघटप्रतियोगिकत्वाभावो वर्तते एव इति घटीयप्रतियोगिता गृह्यते, तदनवच्छेदकं वह्नित्वम् इति लक्षणसमन्वयः । एवं महाकालत्वाधिकरणमहाकालानुयोगिकसाध्यतावच्छेदके कालिकसम्बन्धसामान्ये गगनत्वावच्छिन्नगगनप्रतियोगिकत्वाभावो वर्तते । अतो गगनीयप्रतियोगितामादाय लक्षणसमन्वयसंभवात् नाव्याप्तिः । इत्थं च अन्यतरविवक्षयैवाव्याप्तिदोषनिराकरणसंभवेऽपि गुरुतरलक्षणप्रतिपादनमयुक्तमिति चेत्
ચન્દ્રશેખરીયા : પ્રશ્ન ઃ આ લક્ષણમાં ગૌરવ છે. એના કરતા તો આ પ્રમાણે કહો કે “યાદશપ્રતિયોગિતાવચ્છેદક-અવચ્છિન્નપ્રતિયોગીકસંબંધસામાન્યમાં હત્યધિકરણીભૂતકિચિતુવ્યક્તિઅનુયોગિક-સાધ્યતા-અવચ્છેદકસંબંધત્વનો અભાવ હોય. તાદેશપ્રતિયોગિતાનવચ્છેદક સાધ્યતાવચ્છેદક सेवामुं."
mmitmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૦ ૧૩૦ 000000000000000dddddddddddddddddddddddddddddddddddd0000000000000000000000000000000GOOddodadagadalaaaaaaaaaaaaa000000000000000000000000008