________________
दीधिति: १९
સંયોગત્વાવચ્છિન્નસંયોગસામાન્યમાં તાદશોભયાભાવ મળવો જોઈએ અને એ જાત્યભાવને લઈને મળી જ જાય छे. माटे अतिव्याप्ति न आवे.
जागदीशी- घटीयसंयोगे, पर्वतीयसंयोगे वा, - हेतुमन्महानसानुयोगिकत्ववह्नित्वावच्छिन्न-प्रतियोगिकत्वोभयाभावसत्त्वात् 'वह्निमान् धूमादि' त्यादावव्याप्तिरतः - प्रथमं - 'सामान्य' -पदं, तथा च - महानसीयवह्निसंयोग एव तादृशोभयाभावविरहान्नाव्याप्तिः । संयोगसामान्य एव हेतुमदयोगोलकानुयोगिकत्व, - धूमत्वावच्छिन्नप्रतियोगिकत्वो भयाभावसत्वाद् 'धूमवान् वह्ने' रित्यादौ नातिव्याप्तिः ।
-
संयोगसामान्य एव समवायनिष्ठपर्वतानुयोगिकत्वस्य, वह्नित्वावच्छिन्नप्रतियोगिकत्वस्य च, द्वयोरभावसत्त्वात्तथैवाऽव्याप्तिरतः - "सामान्योभये - "ति सामान्यपदमुभयत्रान्वितमिति भावः ।
I
चन्द्रशेखरीया : यदि साध्यतावच्छेदसम्बन्धे इत्येवोच्येत, सामान्यपदं नोपादीयेत, तदा तु वह्निमान् धूमादित्यत्र साध्यतावच्छेदके घटीयसंयोगे वह्निप्रतियोगिकत्वसामान्याभावस्य सत्वात् पर्वताद्यनुयोगिकत्वसामान्याभावस्याऽपि च सत्वात् सुतरां उभयाभावो वर्तते । तथा च वहन्यभाव एव लक्षणघटकः । अतोऽव्याप्तिः । न च वह्निप्रतियोगिकसंयोगाः एव साध्यतावच्छेदकसम्बन्धत्वेन इष्टाः, न तु सर्वे संयोगाः । तथा च घटीयसंयोगस्य साध्यतावच्छेदकसम्बन्धत्वविरहात् कथं तस्मिन् उभयाभावमादायाव्याप्तिदानं सङ्गच्छते इति वाच्यम् एवमपि यदि हेत्वधिकरणत्वेन पर्वतो गृह्येत, तदा तु महानसीयसंयोगात्मके साध्यतावच्छेदके पर्वतानुयोगिकत्वाभावो वर्तते, अतो वह्निप्रतियोगिकत्वपर्वतानुयोगिकत्वो भयाभावोऽपि वर्तते । यदि च हेत्वधिकरणत्वेन महानसो गृह्येत, तदा तु पर्वतीयवह्निसंयोगात्मके साध्यतावच्छेदके वह्निप्रतियोगिकत्वमहानसानुयोगिकत्वोभयाभावो वर्तते । एवं च सर्वत्र साध्याभावस्य लक्षणघटकत्वात् अव्याप्तिर्भवेत् । तस्मात् सामान्यपदमुपात्तम् । तथा च यदि पर्वतो हेत्वधिकरणत्वेन गृह्येत, तदापि साध्यतावच्छेदके महानसीयवह्निसंयोगे भवतु तादृशोभयाभाव:, किन्तु साध्यतावच्छेदकसामान्यान्तर्गते पर्वतीयवह्निसंयोगे तु वह्निप्रतियोगिकत्व-पर्वतानुयोगिकत्वोभयं वर्तते । अतः सम्बन्धसामान्ये तादृशोभयाभावो न वर्तते । तेन न वह्न्न्यभावो लक्षणघटकोऽपि तु गगनाभावः । तथा च नाव्याप्तिः इति । एवं यदि हेत्वधिकरणत्वेन महानसं गृह्यते । तदा तु संयोगसामान्यान्तर्गते महानसीयसंयोगे तादृशोभयसत्वात् तत्रापि साध्यतावच्छेदकसंयोगसामान्ये उभयाभावो न भवति । अतो न वहन्यभावो लक्षणघटकः इत्येवंरीत्याऽव्याप्तिनिरासो विभावनीयः ।
धूमवान् वह्नेरित्यत्र तु हेत्वधिकरणत्वेनायोगोलकं गृह्यते । तत्र संयोगेन धूमो न वर्तते । तथा चात्र जगति ये धूमसंयोगाः, तेषु सर्वेषु अयोगोलकानुयोगिकत्वसामान्याभावो वर्तत एव । ये चायोगोलकानुयोगिकसंयोगाः, तेषु सर्वेषु धूमप्रतियोगिकत्वसामान्याभावो वर्तते । ये चान्ये संयोगाः तेष्वभयाभावो वर्तते । इत्थं च संयोगसामान्ये तादृशानुयोगिकत्वसामान्याभावं तादृशप्रतियोगिकत्वसामान्याभावं तादृशोभयाभावं वादाय तादृशोभयाभावो वर्तते । इत्थं च धूमाभाव एव लक्षणघटकः तथा च नातिव्याप्तिः ।
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૭ ૧૨૮