________________
दीधिति:१९ AROOOOOOOOOOOOODadaoadpadddddddddDOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOTwoddadOOOOOOOOOOOOOOOOOOOOOOOOOOOD
लाघवाद्वाच्यम्,' ___ तथा च शुद्धघटस्य साध्यतायां महाकालान्यत्वविशिष्टघटाभावोऽपि प्रतियोगिसमानाधिकरण एव ।
प्रतियोगिता च प्रतियोगितावच्छेदकधर्मस्वरूपैव, लाघवात्,- न तु प्रतियोगिस्वरूपा, -
- तेषां नानात्वेन गौरवादतो, -नैकप्रतियोग्यनधिकरणतामादाय 'संयोग्येतत्त्वा' दित्यादावव्याप्ति" -रित्याहुः,
TD00000000000000000000000000000000000000000000000000000000000000000000000000000
चन्द्रशेखरीया : अत्र केचित् तु इत्थं पूर्वपक्षाशयं प्रकटीकुर्वन्ति । साध्यसाधनभेदेन व्याप्तेर्भेदस्याभ्युपगमात् यत्र विशिष्टसत्तावान् जातेरित्यादौ विशिष्टं साध्यं भवति । तत्रैव तादृशप्रतियोगितावच्छेदकावच्छिन्नानधिकरणं हेत्वधिकरणमित्यादि वक्तव्यम् । यतः तत्र यदि यादृशप्रतियोगिताश्रयानधिकरणं हेत्वधिकरणमित्युच्येत, तदा तु विशिष्टसत्ताऽभावप्रतियोगिताश्रयशुद्धसत्तायाः अधिकरणमेव जात्यधिकरणम् गुणादि, अतः साध्याभावो न लक्षणघटको भवेत् । किन्तु घटाभावप्रतियोगिताश्रयघटानधिकरणमेव गुणादि, तद्वृत्तिघटाभावप्रतियोगितानवच्छेदकं विशिष्टसत्तात्वम् इति लक्षणसमन्वयात् अतिव्याप्तिर्भवेत् । अतः तत्र तु यादृशप्रतियोगितावच्छेदकावच्छिन्ना- अनधिकरणं हेत्वधिकरणमिति वक्तव्यमेव । तथा च विशिष्ट-सत्तानिष्ठप्रतियोगितावच्छेदकं विशिष्टसत्तात्वं तदवच्छिन्ना विशिष्टसत्ता, तदनधिकरणं गुणः इति साध्याभावस्य लक्षणघटकत्वात् नातिव्याप्तिर्भवेत् । किन्तु यत्र वन्यादिरूपमविशिष्टं साध्यं, तत्र तु प्रयोजनविरहात् यादृशप्रतियोगिताश्रयानधिकरणं हेत्वधिकरणमित्यादि एव लाघवात् वक्तु मुचितम् । एवं च घटवान् महाकालत्वादित्यत्र शुद्धघटस्य साध्यत्वात्, यादृशप्रतियोगिताश्रयघटितमेव लक्षणं वक्तव्यम् । तथा च यद्यपि महाकाले महाकालभेदविशिष्टघटस्याभावो वर्तते । तथापि तादृशघटनिष्ठप्रतियोगिताया आश्रयं शुद्धघटोऽपि, स च कालिकेन प्रतियोगितावच्छेदकरूपेण महाकाले वर्तते । अतो महाकालः तादृशविशिष्टघटनिष्ठ-प्रतियोगिताश्रयशुद्धघटाधिकरणमेव न त्वनधिकरणं इति न तादृशविशिष्टघटाभावोऽपि लक्षणघटकः इति भवत्यव्याप्तिः । न चैवं सति संयोगी एतवृक्षत्वादित्यादावव्याप्तिर्भवेत् । संयोगाभावप्रतियोगिताश्रयो जलवृत्तिः संयोगोऽपि, तदनधिकरणमेव । एतवृक्षः इति साध्याभावस्यैव लक्षणघटकत्वात् इति वाच्यम् यतः प्रतियोगिता न प्रतियोगिस्वरूपा, यतः प्रतियोगिनां अनन्तत्वेन प्रतियोगिताया अपि प्रतियोग्यात्मकत्वे मन्यमाने अनन्तप्रतियोगिताकल्पनागौरवापत्तिरतो लाघवात् प्रतियोगिता प्रतियोगितावच्छेदकसंयोगत्वादिधर्मरूपैव । स च संयोगत्वधर्मः जातिरूपः एकः एव । अतः प्रतियोगितायाः संयोगत्वात्मकत्वकल्पनायां लाघवमपि भवति । इत्थं च संयोगाभावप्रतियोगितायाः संयोगत्वजातिरूपायाः आश्रयाः सर्वे एव संयोगाः, न तु केवलं जलवृत्तिस्संयोगः । तेषां प्रतियोगिताश्रयभूतानां सर्वेषां संयोगानामनधिकरणं तु एतवृक्षो न भवतीति न साध्याभावो लक्षणघटकः । अतः समवायेन घटाद्यभावमादायैव लक्षणसमन्वयसंभवात् नाव्याप्तिरत्र । एवं च घटवान् महाकालत्वात् इत्यत्र DOOODOODDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDDITIODDDDDDDDDDDDDDDDDDDDDDDDDDDDIHOOTDADIODOHDDODDDDDDOOODDIDADODDGODDODOODOOD
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૦ ૯૯
00000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000
0
00
0
8000
CHROOOOOOOOOOOOOOOOOOODoddddddddddddddoTOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOddddddddddddadOOOOOOOOOOOOOOOO000000000000000018