________________
दीधितिः५
दीधिति यत्तदर्थयोरननुगमात, एकावच्छेदेन यावद्विशेषाभाववत्त्वस्योपाधित्वाच्च।
जागदीशी-- प्राचां मते यत्तदर्थयोरनुगतत्वादाह - *एकावच्छेदेनेति* इदमुपाधेः साधनाव्यापकत्वरक्षाय।।
चन्द्रशेखरीया: दीधित्यां उत्तरं ददाति-यत्तदर्थयोरननुगमात् इत्यादिना । अयं भावः वह्नित्वावच्छिन्नवह्निनिरूपिता व्याप्तिः सर्वत्र धूमे धूमत्वावच्छेदेनानुगता अस्ति । किन्तु अत्र तु भवदुक्ता व्याप्तिः यत्-तत्पदघटिता । यत्त्वं तत्त्वं च , नानुगतं । न वा जातिः । अतः यत्पदात् कपिसंयोगाभिघातघटसंयोगपटादयो गृह्यन्ते । इत्थं च अत्रानुगतव्याप्तिः न मीलति । व्याप्यतावच्छेदकधर्मस्य सर्वेषु हेतुषु अनुगतस्यैव अनुगतव्याप्तिप्रयोजकत्वात् । यथा धूमत्वस्य सर्वेषु धूमेषु । अनुगतव्याप्तिप्रयोजकत्वं । अत्र च तदभावात् नानुगता व्याप्तिः । अतः नेयम् व्याप्तिरुचिता इति भावः। . ननु तत्पदजन्यबुद्धिविषयतावच्छेदकधर्मावच्छिन्नत्वमेव तत्पदस्य अर्थः। "स घटः स पटः" इत्यादिना तत्पदजन्यबुद्धिविषयतावच्छेदकाः घटत्वपटत्वादयो भवन्ति । तदवच्छिन्नाः घटपटपुस्तकादयो यद्यपि अननुगताः । तेषु, सर्वेषु अनुगतस्यैकधर्मस्याभावात् । किन्तु तेषु सर्वेषु तादृशधर्मावच्छिन्नत्वं तु एकमेव इति भवति अत्रापि अनुगतैव व्याप्तिः इति चेत् अस्तु एवं । तथापि भवदुक्तव्याप्तौ एकावच्छेदेन यावद्विशेषाभाववत्त्वं उपाधिः भवति।
उपाधित्वं नाम साध्यव्यापकत्वे सति साधनाव्यापकत्वं तस्य फलं तु व्यभिचारोद्भवः एव । तथा हि-संयोगसामान्याभावः । साध्यः । स च कुत्रापि द्रव्येऽसिद्धः । यतोऽनेनानुमानेनैव स द्रव्ये भवता साध्यते । अतः अनुमानं यावत् निर्दोषं न सिध्येत् । तावत् कुत्रापि द्रव्ये संयोगसामान्याभावो न सिध्येत् । किन्तु गुणादौ संयोगसामान्याभावः प्रसिद्धः । तत्र च सर्वत्र एकावच्छेदेन संयोगीययावद्विशेषाभावः प्रसिद्धः । तत्र च सर्वत्र एकावच्छेदेन संयोगीययावद्विशेषाभावाः सन्ति, इति उपाधिः साध्यव्यापको भवति । तथा संयोगीययावद्विशेषाभावाः वृक्षादौ प्रसिद्धाः । किन्तु तत्र एकावच्छेदेन मूलाद्यवच्छेदेन संयोगीययावद्विशेषाभावाः न सन्ति । यतः कुत्रापि अवयवे गगनसंयोगादयः केचित् तु सन्त्येव । अतः अयमुपाधिः साधनाव्यापकोऽपि भवति। . उपाधिः साध्यव्यापकः इति अस्यायमेवार्थः यदुत "यत्र साध्यं तत्र उपाधिः, यत्र उपाध्यभावः तत्र साध्याभावः इति । स चोपाधिः "साधनाव्यापकः" इति अस्यायमेवार्थः यदुत-किञ्चिदेकादिकं स्थानं अस्ति । यत्र साधनमस्ति ।। उपाधिर्नास्ति । तथा च तादृक्स्थाने साधनं अस्ति, उपाद्यभावोऽस्ति । उपाद्यभावाच्च तत्र साध्याभावोऽपि सिद्ध्यति ।। तथा च तत्र स्थाने साधनं अस्ति, साध्याभावोऽपि अस्ति इति अयमेव व्यभिचारः ।
एवं चात्रापि संयोगीययावद्विशेषाभाववति वृक्षादौ एकावच्छेदेन संयोगीययावद्विशेषाभावस्याभावात् वृक्षे. संयोगसामान्याभावात्मकसाध्यस्यापि अभावः प्रसिध्यति इति साधनवति साध्याभावसंभवेन व्यभिचारो भवति।।
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃત ગુજરાતી સરલ ટીકાઓ - ૮૮
?
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀