________________
दीधितिः५
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
܀܀܀
܀܀
܀
܀܀
܀܀
܀
܀܀
܀܀
܀
܀
܀
܀
܀܀
܀܀
܀
܀܀
܀܀
܀܀
܀
܀
܀
܀
܀
܀܀܀
܀܀
܀
܀܀
܀
܀
वर्तते इति वृक्षे हेतोरसत्वात् स्वरूपासिद्धिर्भवेत् । न च उत्पत्तिकालावच्छेदेन वृक्षे कस्यापि संयोगस्यासत्वात् घटावृत्तिसंयोगस्यापि अभावः एव इति सर्वेषामभावानां वृक्षवृत्तित्वात् न स्वरूपासिद्धिरिति वाच्यम् एवमपि वृक्षान्यासमवेतत्वात्मको यः । संयोगत्वन्यूनवृत्तिधर्मः । तदवच्छिन्नस्य वृक्षान्यासमवेतस्य वृक्षत्वादिस्वरूपस्य उत्पत्तिकालावच्छेदेनाऽपि वृक्षे सत्वात् न ? तदभावो वृक्षे मीलति इति पूर्ववत् स्वरूपासिद्धिरस्ति एव। .
न च संयोगत्वधर्मः सर्वेषु संयोगेष्वेव वर्तते । वृक्षान्यासमवेतत्वं तु संयोगत्वाभाववति वृक्षत्वादौ अपि वर्तते इति न तत् संयोगत्वन्यूनवृत्ति इति न तददाय निरूक्तक्रमेण स्वरूपासिद्धिदोषः जाघटिति इति वाच्यम् । न्यूनवृत्तित्वं नाम स्वसमानाधिकरण भेदप्रतियोगितावच्छेदकत्वे सति स्वसमानाधिकरणत्वरूपं । यथा स्वं घटत्वं, तच्च प्रथमे द्वितीये च घटे वर्तते । द्वितीये घटे प्रथमघटभेदो वर्तते । तथा च घटत्वसमानाधिकरणो यः द्वितीयघटवृत्तिः प्रथमघटभेदः ।। तत्प्रतियोगितावच्छेदकं प्रथमघटत्वं । तदेव च प्रथमघटे घटत्वसमानाधिकरणमपि भवति इति प्रथमघटत्वं न्यूनवृत्तित्वेन गृह्यते । एवं द्वितीयघटत्वादयोऽपि ज्ञेयाः । संयोगत्वधर्मस्तु घटीयसंयोगे कपिसंयोगेऽपि च अस्ति । घटसंयोगः वृक्षान्यासमवेतः इन, किन्तु वृक्षान्यसमवेत एव इति घटसंयोगे वृक्षान्यसमवेतभेदो वर्तते । तथा च संयोगत्वसमानाधिकरणो यः घटसंयोगनिष्ठो वृक्षान्यसमवेतभेदः, तत्प्रतियोगितावच्छेदकं वृक्षान्यसमवेतत्वं । तदेव च कपिसंयोगे संयोगत्वसमानाधिकरणमपि भवति । एव इति वृक्षान्यसमवेतधर्मोऽपि निरूक्तव्याख्यया संयोगत्वन्यूनवृत्तिरेव भवति । तस्मात् स्वरूपासिद्धिदोषः संभवति । अतः उभयावृत्तिपदघटितकल्पो द्वितीयो वा कल्पः एवानुसरणीयः । तत्र नैष दोषः भवति ।
उभयावृत्तित्वं नाम स्वप्रतियोगिवृत्तित्वस्वानुयोगिवृत्तित्वोभयसम्बन्धेन भेदविशिष्टो यः तदन्यत्वं । यथा प्रथमघटत्वं, प्रथमघटभेदप्रतियोगिप्रथमघटवृत्ति । किन्तु प्रथमघटभेदानुयोगिद्वितीयघटवृत्ति प्रथमघटत्वं नास्ति । अतः उभयसम्बन्धेन प्रथमघटभेदविशिष्टः प्रथमघटत्वधर्मो न भवति । किन्तु प्रथमघटभेदप्रतियोगिप्रथमघटवृत्ति प्रथमघटभेदानुयोगि द्वितीयघटवृत्ति *च घटत्वं भवति एव इति घटत्वधर्मः उभयसम्बन्धेन प्रथमघटभेदविशिष्टो भवति, तदन्यस्तु प्रथमघटत्वादिधर्मः इति स एव उभयावृत्तित्वेन गृह्यते । एवं वृक्षत्वे कपिसंयोगभेदो वर्तते । कपिसंयोगभेदप्रतियोगिकपिसंयोगे वृक्षान्यासमवेतत्वं वर्तते । कपिसंयोगभेदानुयोगिवृक्षत्वेऽपि वृक्षान्यासमवेतत्त्वं वर्तते इति वृक्षान्यासमवेतत्वधर्मः उभयसम्बन्धेन भेदविशिष्टः ।। न तदन्यः इति उभयावृत्तिधर्मत्वेन न वृक्षान्यासमवेतत्वं शक्यते ग्रहीतुं । तस्मात् न तत्कल्पे स्वरूपासिद्धिदोषः, न. वाऽन्योऽपि कोऽपि दोषः। 1 ननु न्यूनवृत्तिपदस्य भवत्कृतोऽर्थः किंप्रयोजनः? इति चेत् भवानेव तावत्कथयतु, कोऽर्थः क्रियते तस्य? घटत्वस्य यावन्ति अधिकरणानि । तेभ्यः केषुचिदेव वृत्तित्वं न्यूनवृत्तित्वं इति चेत् तर्हि असत्कल्पनया त्रिभ्या घटत्वाधिकरणेभ्यः अधिकरणद्वये द्रव्यत्वं वर्तते एव इति तदपि द्रव्यत्वं घटत्वन्यूनवृत्ति एव भविष्यति । यदि च घटत्वस्य यावन्ति अधिकरणानि तेभ्यः केषुचिदेव वृत्तित्वं नान्येषु इति एवकारघटितः निषेधान्वितः अर्थः क्रियते। तर्हि अस्माभिरुदितोऽर्थ एव स भवति । केवलम् शब्दभेदः अर्थस्तु एक एव इति । एवं तावत् अस्माकं इदं रुचित । विशेषज्ञानाय तु आदरणीया बहुश्रुताः ।
܀܀
܀
܀܀
܀
܀
܀܀
܀
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
- સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ ૮૩