________________
दीधितिः४
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
अधिकरणतायाःअवच्छेदकं तु धूमत्वं एकमेव । तथा च परमार्थतो न व्याप्तिः एका, किन्तु निरूपकतावच्छेदका-. धिकरणतावच्छेदकधर्मयोः एकत्वेन भिन्ना अपि व्याप्तिः एकत्वेन व्यवहीयते । परमार्थतस्तु सा भिन्नैव इति ।। કે ચન્દ્રશેખરીયાઃ ઉત્તરઃ સામાનાધિકરણ્ય ભલે દરેક ધૂમમાં જુદું હોય તો પણ એ સામાનાધિકરણ્યનો નિરૂપક વહ્નિ બને છે. અને નિરૂપકતાનો અવચ્છેદક વનિત્વ બને છે. જે એક જ છે. અને બીજી બાજુ એ સામાનાધિકરણ્યનું અધિકરણ બધા ધૂમ બને છે. અને ધૂમમાં રહેલી સામાનાધિકરણ્યની અધિકરણતાનો અવચ્છેદક ધૂમત્વ એક જ છે. આમ આવા બે ધર્મો એક-એક જ હોવાથી વ્યાપ્તિ એક બની જાય છે. એટલે કે વ્યાપ્તિ એક હોવાનો જે વ્યવહાર થાય છે. એનો અર્થ એ જ છે કે વ્યાપ્તિની અધિકરણતાનો અવચ્છેદક અને નિરૂપકતાનો અવચ્છેદક એક છે. બાકી પરમાર્થથી તો બધી વ્યાપ્તિઓ જુદી જ છે.
जागदीशी -- नन्वेवं (सामान्यलक्षणाऽस्वीकारे) "महानसीयवह्निसामानाधिकरण्यस्य स्मृतस्य पक्षवृत्तिधूमादावसत्त्वात् पर्वतीयवलिसामानाधिकरण्यस्य प्रागननुभवात् कुतः परामर्श"? इत्याशङ्कायाम् "एकैव हि सा व्याप्तिरिति" परामर्शीयसिद्धान्तग्रन्थोऽसङ्गत इति।
. चन्द्रशेखरीयाः ननु भवतु नाम एवं, तथापि सामान्यलक्षणाप्रत्यासत्तिं ये न मन्यन्ते । तेषां मते तु अत्र महती आपत्तिः भवति । तथा हि-ये सामान्यलक्षणाप्रत्यासत्तिं मन्यन्ते । ते हीत्थं ज्ञापयन्ति, यत् जनः प्रथमं महानसे चत्वरे च धूम-वढ्योः प्रत्यक्षं करोति । तदैव च तत्र धूमे वह्निसामानाधिकरण्यरूपां व्याप्तिमपि प्रत्यक्षीकरोति । धूमे च धूमत्वनाम्नी सामान्यलक्षणाप्रत्यासत्तिः विद्यते । तेन धूमत्वस्वरूपालौकिकसंनिकर्षेण तस्य सर्वत्र पर्वतीयादिधूमादौ अपि तदैव वह्निसामानाधिकरण्यात्मकव्याप्तेः अलौकिकप्रत्यक्षं भवति । तथा च महानसीयादिधूमे वह्निव्याप्तिप्रत्यक्षकाले एव तस्य पर्वतीयधूमादौ अपि वलिव्याप्तेः अलौकिकप्रत्यक्षं भवति । पश्चात् स पर्वते वरिं विना केवलं धूमं पश्यति ।। दृष्ट्वा च पूर्वानुभूतव्याप्तेः स्मरणं करोति। यस्य अनुभवो अभवत्, तस्यैव स्मरणं भवति इति नियमः ।। तद्व्याप्तिस्मरणात्मकज्ञानेन "वह्निव्याप्यधूमवान् पर्वतः" इति परामर्शो भवति । ततश्च "वह्निमान् पर्वतः" इत्यनुमितिः भवति । एवं तावत् सामान्यलक्षणासंनिकर्षस्वीकारे सर्वमिदं जाघटीति।
किन्तु ये सामान्यलक्षणां न मन्यन्ते । तेषां मते तु महानसीयधूमदर्शने तत्रैव वह्निसामानाधिकरण्यरूपव्याप्तः । प्रत्यक्षं भवति । न तु पर्वतीयधूमादौ । पर्वतीयधूमस्य तत्र अप्रत्यक्षत्वात् । तथा च स जनः यदा वह्नि विना केवलं धूम पश्यति पर्वते । तदा यद्यपि तस्य महानसीयवह्निसामानाधिकरण्यरूपायाः महानसधूमे एव वर्तमानायाः स्मरणं भवत्यपि।। तथापि सा व्याप्तिः पर्वतीयधूमे नास्ति । अतो "वह्निनिरूपितव्याप्तिमान् धूमः" इति पर्वतीयधूमे न प्रतीतिः भवति ।। तथा च परामर्शाभावात् कथं तत्रानुमितिः भवेत्? तत्र पर्वतीयधूमे पर्वतीयवह्निसामानाधिकरण्यरूपा व्याप्तिः यद्यपि अस्ति । तथापि अयं जनः तां व्याप्तिं न प्राक् प्रत्यक्षां कृतवान् । तथा च तद्व्याप्त्यनुभवं विना तस्याः व्याप्तेः । स्मरणमपि न भवति एव । एवं च अत्र पर्वतीयधूमे केनापि प्रकारेण पर्वतीयवह्निनिरूपितव्याप्तेः ज्ञानं न संभवति ।। ................................................................
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ ૫૯