________________
दीधितिः३
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
जागदीशी -- साध्य-साधनभेदेन व्याप्तेर्भेदात् यत्र साधनतावच्छेदकं नाधिकरणतानिरूपकतावच्छेदकं तत्र तदाश्रयसमानाधिकरणत्वमेव निवेश्यमित्यपि वदन्ति ।।३।।
܀܀܀܀
܀܀
܀
܀܀
܀
܀
܀
܀܀
܀
܀܀
܀
܀
܀
܀܀
܀
܀܀
܀
܀܀
܀
܀
܀
. चन्द्रशेखरीयाः केचित् तु साध्य-साधनभेदेन व्याप्तेः भेदाभ्युपगमात् यत्र हेतुतावच्छेदकं धूमत्वादि न अधिकरणतानिरूपकतावच्छेदकं । तत्र लक्षणे हेतुतावच्छेदकावच्छिन्नाधिकरणपदं परित्यज्य तत्स्थाने हेतुतावच्छेदकाश्रयाधिकरण: पदम् प्रवेश्यम् । तथा च यत्र धूमत्वाश्रयधूमाधिकरणं पर्वतादि प्रसिद्धम् । तत्र घटाभावादिकमादाय भवति लक्षणसमन्वयः।। यत्र च विशिष्टसत्तात्वादिकं हेतुतावच्छेदकं अधिकरणतानिरूपकतावच्छेदकं प्रसिद्धम्, तत्र तु हेतुतावच्छेदकावच्छिन्ना-2 *धिकरणमेव लक्षणघटकम् । तेन गुरुतरं पारिभाषिकं तादृशाधिकरणत्वं निरर्थक एव भवति इति वदन्ति। ___ [ननु सर्वमेतद् निरूपणं असमञ्जसं प्रतिभाति । यतो भवद्भिस्तावत् विशिष्टसत्तात्वस्य आश्रयो विशिष्टसत्ता शुद्धसत्ता द्वे अपि अभ्युपगते । तत्कथं युक्तम्? यतो विशिष्टसत्तात्वस्य अधिकरणं आश्रयः विशिष्टसत्ता एव भवितुमर्हति न तु शुद्धसत्ता । किञ्च विवृत्तिकारेण यद् एतद् अभिहितं यदुत-विशिष्टसत्तात्वरूपहेतुतावच्छेदके हेतुतावच्छेदकीभूतसत्तात्वाश्रयीभूतायाः सत्तायाः यदधिकरणं गुणः-इत्यादि । तत्तुच्छमिव प्रतिभाति । यदि हि सत्तात्वमपि हेतुतावच्छेदकं क्रियते । तर्हि पारिभाषिकव्याख्यायां हेतुतावच्छेदकधर्मपदेन सत्तात्वमपि गृह्यते । तथा च स्वं=सत्तात्वम् । तदाश्रयः सत्ता । तदधिकरणं गुणः । तन्निष्ठप्रतियोगितावच्छेदकतायाः शुद्धसत्तात्वे सत्त्वात् अनवच्छेदकत्वाभावात्। उभयाभावो मीलितः । एवं च गुणोऽपि हेतुतावच्छेदकावच्छिन्नाधिकरणपदेन ग्रहीतुं शक्यः । तस्मिन् द्रव्यत्वाभावस्य : सत्त्वात् अव्याप्तिः। . यदि हि सत्तात्वे "अधिकरणतानिरूपकतावच्छेदकत्वं सर्वथैव नास्ति इति तादृशाधिकरणता निरूपकतानवच्छेदकत्वं सत्तात्वे अस्ति तेन न तस्याभावः मीलति" इति उच्यते, तर्हि द्वितीयभागस्य सामान्यतो अधिकरणनिरूपकतावच्छेदकत्वस्य सत्तात्वे अभावः सुतरां मीलति । अतः उभयाभावः दुष्करपरिहारः । एवं च गुणोऽपि लक्षणघटकः अधिकरणत्वेन भवत्येव । तथा च दुस्तरा अव्याप्तिनदी इति चेत् सत्यम् । विशिष्टसत्तात्वस्य अधिकरणं विशिष्टसत्ता इव शुद्धसत्ता अपि भवत्येव इति जगदीशाभिप्रायः इति वयं मन्यामहे । अतः एव विशिष्टसत्तात्वाश्रयशुद्धसत्ताधिकरणगुणनिष्ठाधिकरणतानिरूपकतायाः अवच्छेदकं विशिष्टसत्तात्वं न भवति इति जागदीशीकथनं । अन्यथा विशिष्टसत्तात्वस्य आश्रयः शुद्धसत्ता यदि न भवेत् । तर्हि विशिष्टसत्तात्वाश्रयविशिष्टसत्ताधिकरणं गुणः न भवितुमर्हति । तथा च जागदीश्यभिधानं असंगतं स्यात् ।। * विवृत्यां तु यत् सत्तात्वमपि हेतुतावच्छेदकत्वेन प्रोक्तं । तत् केनाभिप्रायेण? इति वयं नावबुध्यामः । सत्तात्वस्य हेतुतावच्छेदकत्वाभ्युपगमे तु भवदुक्तरीत्याऽव्याप्तिः स्फुटैव । तत्वमत्रत्यं नैयायिकधुरन्धराः विदन्ति इति अलं,
अतिचर्चेण । હું ચન્દ્રશેખરીયાઃ કેટલાંકો વળી અહીં એમ ખુલાસો આપે છે કે સાધ્ય-સાધનના ભેદથી વ્યાપ્તિનો ભેદ માનેલો
܀
܀܀
܀
܀܀
܀
܀܀܀
܀܀
܀
܀ ܀
܀ ܀
܀
܀
܀܀
܀
܀܀
܀
܀
܀
܀
܀܀
܀
܀
܀܀܀
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
-
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃતિ+ગુજરાતી સરલ ટીકાઓ - ૫૬
आमा. ५७
ܕ݁ܳ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀