________________
दीधितिः३
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
जागदीशी -- तथाऽपि हेतुतावच्छेदकधर्मे- स्वाश्रयाधिकरणीभूतयन्निष्ठाधिकरणतानवच्छेदकत्वस्य (सामान्यतः) अधिकरणतावच्छेदकत्वस्य च द्वयोर्व्यतिरेकः, तथाविधं हेतुतावच्छेदकाश्रयाधिकरणमेव हेतुतावच्छेदकावच्छिन्नाधिकरणे' त्यनेन विवक्षितं । वलिमान धूमादित्यादौ च तादृशं हेत्वधिकरणं, धूमस्याधिकरणमात्रं । द्रव्यं विशिष्टसत्त्वादित्यादौ तादृशहेत्वधिकरणं द्रव्यमेव, न तु गुणादि । विशिष्टसत्तात्वे. तनिष्ठाधिकरणतानवच्छेदकत्वस्य (सामान्यतः) अधिकरणतावच्छेदकत्वस्य च द्वयोः सत्त्वादिति ध्येयम् ।।
* चन्द्रशेखरीयाः तर्हि "हेतुतावच्छेदकावच्छिन्नहेत्वधिकरण" इति अस्य पारिभाषिको वक्ष्यमाणोऽर्थः कर्तव्यः । स. च अयम्-हे तुतावच्छे द क धर्मे स्वाश्रयाधिकरणीभूतयन्निष्ठाधिकरणतानिरूपकतानवच्छे द क त्वसामान्यतोऽधिकरणतावच्छेदकत्वैतदु-भयाभावः । स्वाश्रयाधिकरणीभूतं तदेव हेतुतावच्छेदकावच्छिन्नहेत्वधिकरणपदेन ग्राह्यम् । धूमत्वं हेतुतावच्छेदकं अस्ति । तथा च स्वं=धूमत्वं, तस्य आश्रयः धूमः, तस्य अधिकरणं पर्वतादिः, तस्मिन् अधिकरणता, तस्याः निरूपकः पर्वतीयो धूमः, तन्निरूपकतावच्छेदकं पर्वतीयधूमत्वं, अनवच्छेदकं धूमत्वं । एवं प्रथमभागो धूमत्वे अस्ति। किन्तु धूमत्वावच्छिन्नधूमाधिकरणतायाः अस्वीकृतत्वात् धूमत्वं न कस्या अपि अधिकरणतानिरूपकतायाः अवच्छेदकं भवति इति धूमत्वे सामान्यतो अधिकरणतावच्छेदकत्वं नास्ति इति द्वितीयभागस्य, असत्त्वात् एकसत्वेऽपि द्वयं नास्ति इति न्यायात् धूमत्वे उभयाभावः अस्ति । अतः यत्पदगृहीतः पर्वतादिः एव हेतुतावच्छेदकावच्छिन्नाधिकरणपदेन गृह्यते । तद्वृत्तिघटाभावीयप्रतियोगितायाः अनवच्छेदकं वह्नित्वं इति लक्षणसमन्वयः ।। . एवं द्रव्यं विशिष्टसत्वात् इति अत्रापि पारिभाषिकं हेतुतावच्छेदकावच्छिन्नाधिकरणं ग्राह्यम् । तथाहि हेतुतावच्छेदक विशिष्टसत्तात्वम् । तदवच्छिन्नं केवला विशिष्टसत्ता एव, किन्तु विशिष्टसत्तात्वाश्रयस्तु विशिष्टसत्ता शुद्धसत्ता द्वे अपि भवतः । विशिष्टसत्तायाः शुद्धसत्ताभिन्नत्वात् । तथा च अत्र स्वाश्रयं यदि शुद्धसत्ता गृह्यते । तर्हि तदधिकरणं गुणः । तस्मिन् अधिकरणता । तस्य निरूपिका शुद्धसत्ता । तन्निष्ठनिरूपकतायाः अवच्छेदकं शुद्धसत्तात्वम् भवति ।। अनवच्छेदकं तु विशिष्टसत्तात्वम् । तथा विशिष्टसत्तात्वे सामान्यतः द्रव्यनिष्ठाधिकरणतानिरूपकतायाः विशिष्टसत्तानिष्ठायाः अवच्छेदकत्वं अस्ति इति अत्र विशिष्टसत्तात्चे उभयसत्वात् उभयाभावो न मीलति। अतः गुणः न हेतुतावच्छेदकावच्छिन्नाधिकरणपदेन ग्रहीतुं शक्यः । किन्तु विशिष्टसत्तात्वस्य आश्रयः विशिष्टसत्ता । तदधिकरणं द्रव्यं । तस्मिन् वर्तमानायाः अधिकरणतायाः निरूपकता विशिष्टसत्तायां । तन्निरूपकतावच्छेदकं विशिष्टसत्तात्वम् इति विशिष्टसत्तात्वे तादृशाधिकरणतानवच्छेदकत्वं नास्ति । अतः एकाभावात् उभयाभावोऽपि विशिष्टसत्तात्वे मीलितः ।। तथा च यत्पदगृहीतं द्रव्यमेव हेतुतावच्छेदकावच्छिन्नाधिकरणपदेन गृह्यते । तस्मिन् द्रव्यत्वाभावो नास्ति, किन्तु गुणत्वाभावादिः, तत्प्रतियोगितानवच्छेदकं द्रव्यत्वत्वं इति लक्षणघटनात् नाव्याप्तिः ।
ચન્દ્રશેખરીયાઃ ઉત્તરઃ જો એમ હોય તો અમે કહેશે કે હેતુસાવચ્છેદકધર્મમાં સ્વાશ્રય-અધિકરણ યનિષ્ઠાધિકરણતા-નિરૂપકતાનવચ્છેદત્વ+સામાન્યથી અધિકરણતાનિરૂપકતાવચ્છેદકત્વ એ ઉભયનો અભાવ
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
સિદ્ધાન્તલક્ષણ ઉપર ”ચન્દ્રશેખરીયા' નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ - ૫૪
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀