________________
दीधिति
इत्थञ्च इदं द्रव्यं गुणकर्म्मान्यत्वे सति सत्त्वादित्यादौ
सत्त्वाद्यधिकरणगुणादिनिष्ठात्यन्ताभावप्रतियोगित्वेऽपि द्रव्यत्वादेर्नाव्याप्तिः, विशिष्टसत्त्वादेर्गुणादाववृत्तेः ।। ३ ।।
साधनस्य
जागदीशी -- यद्रूपविशिष्टस्य फलमाह * इत्थञ्चेति * चोऽवधारणे । इत्यादी= इत्यादिन्यायस्थलीयहेती | तथा च न्याय: पक्षनिर्देशं विना न सम्भवतीत्यत इदम्पदेन तन्निर्देशः, एवमग्रेऽपि ।
चन्द्रशेखरीयाः संप्रति दीधितिप्रोक्तलक्षणे निविष्टस्य "यद्रूपविशिष्ट" इति पदस्य फलं दीधितिः प्राह-इत्थञ्च इत्यादिना... अयं भावः यदि हि यद्रूपविशिष्टपदं न प्रक्षिप्यते लक्षणे । तदा इदं द्रव्यं गुणकर्मभिन्नत्वे सति सत्त्वात् इति अत्र अव्याप्तिः भवति । यतो विशिष्टसत्ता अत्र हेतुः । सा च शुद्धसत्ताभिन्ना । शुद्धसत्तायाः अधिकरणं गुणः अपि । तस्मिन् द्रव्यत्वाभावः । तत्प्रतियोगितावच्छेदकं द्रव्यत्वत्वं एव साध्यतावच्छेदकं इति अव्याप्तिः ।
दीधिति: ३
यद्रूपविशिष्टस्य हेतुविशेषणत्वेन प्रवेशे कृते सति नेयमव्याप्तिः भवति । यतो विशिष्टसत्तात्वम् अत्र यद्रूपम् । तद्विशिष्टा विशिष्टसत्ता एव । न तु शुद्धसत्ता । विशिष्टसत्तायाः अधिकरणं द्रव्यं । न तु गुणः । तस्मिन् द्रव्ये द्रव्यत्वाभावो नास्ति । किन्तु गुणत्वाभावः । तत्प्रतियोगितावच्छेदकं गुणत्वत्वं इति लक्षणघटनात् न दोषः । ननु "व्याप्तिलक्षणे निरूप्यमाणे कुत्रापि पक्षनिर्देशः न क्रियते " इति सामान्यतः प्रभूतेषु ग्रन्थेषु दृष्टम् । अत्र तु इदम्पदेन किमर्थं पक्षनिर्देशः क्रियते इति चेत् पञ्चावयववाक्यप्रयोगः हि न्यायः । यत्र च न्यायस्य प्रतिपादनं कर्तुमिष्यते तत्र पक्षनिर्देशः आवश्यकः । अन्यथा पक्षघटिताया: प्रतिज्ञायाः अनिर्वाहात् न न्यायप्रयोगः सुशकः इति अत्र न्यायस्य कर्तुमिष्टत्वात् पक्षनिर्देशः कृतः । न च पक्षनिर्देशं विना न्यायः संभवति ।
ચન્દ્રશેખરીયા: દીધિતિ લક્ષણમાં પ્રતિયોગિ-વ્યધિક૨ણ-યદૂરૂપવિશિષ્ટ હેતુસમાનાધિકરણ અભાવ. એમ યરૂપ પદ લખેલ છે. હવે દીદ્ધિતિ પોતે જ એ પદનો ફાયદો બતાવે છે. જો યપવિશિષ્ટ એમ ન લખે તો ઇદં દ્રવ્ય ગુણકર્મભિન્નત્યે સતિ વિશિષ્ટસત્વાત્ અહીં અવ્યાપ્તિ આવે. અહીં વિશિષ્ટસત્તા એ હેતુ છે. એ અને શુદ્ધસત્તા *એક જ છે. અને શુદ્ધસત્તાના અધિકરણ તરીકે ગુણાદિ પણ મળે. અને તેમાં દ્રવ્યત્વાભાવ મળી જાય. આમ શુદ્ધસત્તા-અધિકરણગુણમાં રહેલો દ્રવ્યત્વાભાવ લક્ષણઘટક બને. તેની પ્રતિયોગિતાનો અવચ્છેદક દ્રવ્યત્વત્વ એ જ સાધ્યતાવચ્છેદક બની જતાં અવ્યાપ્તિ આવે.
पए। "य६३ पविशिष्ट" से हेतुनुं विशेषए। भुस्वाथी वांधो न खावे. डेभडे विशिष्टसत्तात्व से य६३५" तरीडे: છે. તેનાથી વિશિષ્ટ તો વિ.સત્તા જ બને. શુદ્ધસત્તા ન બને. એ તે વિ.સત્તાનું અધિકરણ દ્રવ્ય જ બનશે. અને તેમાં દ્રવ્યત્વાભાવ ન મળે. ગુણત્વાભાવને લઈને લક્ષણ ઘટી જાય.
܀܀܀܀܀܀܀܀܀܀܀܀
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ – ૫૧
܀܀܀܀܀܀܀܀܀