________________
दीधितिः२
अनुमितिनिष्ठं अस्ति एव । अतः तादृग्ज्ञानात्मककारणानन्तरं "दंडत्ववद्वान्" इति अनुमितिस्तु भवत्येव । यदि च भवदुक्तरीत्या दंडिमान् इति अनुमितिरपि निरुक्तज्ञानकार्यं मन्यते । तर्हि तज्ज्ञानानन्तरं इयमपि अनुमितिः अवश्यं । उत्पाद्या । तथा च कारणात्मकज्ञानानन्तरं "दंडत्ववद्वान् दंडिमान्" इति युगपद् द्वे अनुमिती स्तः । न च एतद् युक्तं ।। अनुभवविरुद्धत्वात् । न च अनुभवविरोधेऽपि काचित् कल्पना कर्तुं शक्या । अन्यथा वह्नौ उष्णस्पर्शानुभवेऽपि शीतस्पर्शादिकल्पनावकाशात् । तस्मात् अतितुच्छमिव प्रतिभाति पूर्वपक्षोक्तं निर्वचनम् इति ध्येयम्।
ચન્દ્રશેખરીયાઃ ઉત્તરઃ આ તો બુદ્ધિમત્તાનું પ્રદર્શન તમે કરો છો. કેમકે ઉપરના વ્યાપ્તિજ્ઞાનની કાર્યતા તો "દંડત્વવદ્વાનું પ્રાસાદ:" એવી પરંપરાસંબંધથી દંડત્વવિશિષ્ટદંડી-સાધ્યક અનુમિતિમાં પણ રહેલી છે. એટલે આ કાર્યતાનું અવચ્છેદક દંડત્વાવચ્છિન્નવિધેયકાનુમિતિત્વ પણ છે. આનો અર્થ એ કે આ દંડવૈવિશેષ્યક એવા તાદશપ્રતિયોગિતાનવચ્છેદકત્વ જ્ઞાનના બે કાર્યો બનશે. અને તેથી જ્યાં આ કારણ હાજર થશે ત્યાં એક સાથે "દંડિમાનું પ્રાસાદ: દંડત્વવદ્વાનું પ્રાસાદ:" એ બે ય અનુમિતિ થવાની આપત્તિ આવે. જે સર્વથા અનુભવવિરુદ્ધ હોવાથી માની શકાતી જ નથી. આમાં ઘણી લાંબી ચર્ચા છે. અહીં તો માત્ર દિફ સૂચન કરેલ છે.
जागदीशी -- अपरे तु 'नोक्तव्याप्तिज्ञानं 'दण्डिमान्' वनिसंयोगवान्' इत्याद्यनुमितौ हेतुः, किन्तु वक्ष्यमाणमन्योऽन्या-भावघटितव्याप्तिज्ञानम् । अत एव 'यथा-यथमि'त्यादिग्रन्थोऽपि सङ्गच्छत' इत्याहुः ।।
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
चन्द्रशेखरीयाः जागदीश्यां अपरे तु इत्यादिना अन्यः कश्चित् पूर्वपक्षः समुत्तिष्ठति युद्धाय । तेषामयमाशयःअत्यन्ताभावघटितायाः व्याप्तेः ज्ञानं "दंडिमान्, वह्निमान्" इत्यादौ न कारणम् । यतः तत्र व्याप्ति-लक्षणं न घटते ।। दंडत्वादीनां परंपरया साध्यतावच्छेदकत्वस्वीकारे नास्माकं रूचिरस्ति । कल्पनागौरवात् अनुभविरोधाच्च । किन्तु अग्रे अत्रैव ग्रन्थे वक्ष्यमाणं भेदघटितं एव व्याप्ति-लक्षणम् तत्र ग्राह्यम् । तल्लक्षणं अत्र स्थाने सुखं घटते । तथाहिहेत्वधिकरणवृत्ति-भेदप्रतियोगितानवच्छेदकसाध्यसामानाधिकरण्यं हि हेतुनिष्ठा व्याप्तिः इति एतत् भेदघटितं लक्षणम् ।। 'दंडिसंयोगाधिकरणं भूतलं दंडिमान् न' इति न शक्यते वक्तुं । किन्तु तद् भूतलं "घटवान् न" इति शक्यते वक्तुं । तथा च तद्भूतले वर्तमानः घटवभेदः । तस्य प्रतियोगितायाः अवच्छेदकः घटः । दंडस्तु अनवच्छेदकः एव साध्यतावच्छेदकः । इति लक्षणघटनात् नाव्याप्तिः । इत्थं च एतद् अङ्गीकर्तव्यम् । अन्यथा सर्वत्रैव अत्यन्ताभावघटितलक्षणस्यैव स्वीकारे अत्रैव ग्रन्थे अग्रे वक्ष्यमाणं यथायथम्... इत्यादि न संजाघटीति । तस्य ग्रन्थस्य अयमाशयः यदुत यत्रानुमाने यल्लक्षणं सङ्गच्छते । तत्रानुमाने भेदघटितं अत्यन्ताभावघटितं वा तदेव लक्षणं अनुसरणीयम् । । अथ भवता सर्वत्रैव येन केनाऽपि प्रकारेण अत्यन्ताभावघटितमेव लक्षणं अनुसंधीयते । तर्हि भेदघटितलक्षणस्य
सर्वथा अनवकाशात् स ग्रन्थः निश्फलो भवेत् । तस्मात् दंड्यादिसाध्यके भेदघटिता व्याप्तिः एव ग्राह्या । __[आहुः इत्यादिना जागदीश्यां अस्वरसः सूचितः। तद्बीजं तु तत्र नोक्तम् । किन्तु विवृत्यां वामाचरणैः ततः स्फुटीकृतम् । तच्च इदम् । दंड्यादिसाध्यके अनुमाने भेदघटितलक्षणमपि अव्याप्तमेव भवति । यतो "भूतलं तदंडिमान्,
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કતગજરાતી સરલ ટીકાઓ ૦ ૪૫