________________
दीधिति: २
܀܀܀܀܀܀܀܀
܀܀܀܀܀
धर्मस्तद्विशिष्टावच्छिन्न सामानाधिकरण्यरूपैव व्याप्तिः तद्विशिष्टावच्छिन्नविधेयकानुमितिप्रयोजिका । यत्र तु परम्परया दण्डत्वादिकमेवानुमितौ विधेयतावच्छेदकं, तत्र हेतुमन्निष्ठाभावप्रतियोगितानवच्छेदको यो धर्मः, परम्परया तदवच्छिन्नसामानाधिकरण्यरूपैव व्याप्तिरनुमितिप्रयोजिकेति - सामानाधिकरण्यांशे दण्डादेः प्रवेशाप्रवेशकृतो ‘दण्डिमान्’ 'दण्डत्ववत्त्वान्' इत्यनुमित्योर्दण्डादिविधेयकत्वनियम' इत्याहुः ।
चन्द्रशेखरीयाः जागदीश्यां केषाञ्चिन्मतं प्रदर्शयितुं आरभते केचित् इत्यादिना । अयं तेषां अभिप्रायः । कस्मिंश्चित् अनुमाने धूमः साधनम्, वह्निः साध्यः । कुत्रचित् घटत्वं साधनम् = हेतु:, द्रव्यत्वं साध्यम् । एवं यथा यथा यत्र यत्र साध्यसाधनभेदो भवति । तथा तथा तत्र तत्र व्याप्तिज्ञानं अनुमितिश्च भिन्ना भिन्ना भवति । अतः तत्र तत्र अनुमाने व्याप्ति-ज्ञानानुमित्योः कार्यकारणभावोऽपि भिन्नः एव । न तु सर्वत्र एकमेव व्याप्तिज्ञानं एका एव च अनुमितिः ।
अतः यत्र "दंडिमान्" इत्यादि अनुमाने दंडत्त्वविशिष्टः दंड: एव साध्यतावच्छेदकः मन्यते । तत्र इदं व्याप्तिलक्षणंहेतुमन्निष्ठाभाव-प्रतियोगितावच्छेदकतानवच्छेदको यः धर्मः तद्विशिष्टावच्छिन्नसामानाधिकरण्यम् हेतुनिष्ठा व्याप्तिः- दंडिसंयोगाधिकरणे भूतलादौ वर्तमानः तत्तद्दंड्यभावः, तस्य प्रतियोगितायाः अवच्छेदकः तत्तद्वंङः । तस्मिन्ः वर्तमानायाः प्रतियोगितावच्छेदकतायाः अनवच्छेदकं शुद्धदंडत्वं तेन दंडत्वेन विशिष्टः दंड: । तदवच्छिन्नश्च दंडी । तत्सामानाधिकरण्यं दंडिसंयोगे वर्तते इति लक्षणघटनात् न अव्याप्तिः । अत्र कल्पे "प्रासादः दंडिमान्" इति अनुमितिः भवति । दंडस्यैव साध्यतावच्छेदकत्वेन अभिमतत्वात् ।
यत्र तु परंपरासम्बन्धेन दंडत्वं साध्यतावच्छेदकं । तत्र इदं लक्षणम् - हेतुमन्निष्ठाभावप्रतियोगितानवच्छेदकः यः धर्मः तदवच्छिन्नसामानाधिकरण्यम् हेतुनिष्ठा व्याप्तिः तथा हि- हेतुमन्निष्ठाः तत्तद्वंड्यभावाः । तत्प्रतियोगितावच्छेदकाः तत्तद्दंडाः । (शुद्धदंड एव वा) तादृशप्रतियोगितानवच्छेदकं तु दंडत्वं । परंपरासम्बन्धेन तेन दंडत्वेन अवच्छिन्नः दंडी, तत्सामानाधिकरण्यस्य दंडिसंयोगे सत्त्वात् नाव्याप्तिः ।
तथा च प्रथमकल्पे "तादृशप्रतियोगितावच्छेदकतानवच्छेदकदंडत्वविशिष्टेन दंडेन अवच्छिन्नस्य दंडिनः सामानाधिकरण्यम्" इति सामानाधिकरण्यांशे दंडस्य प्रवेशात् दंडिमान् इति अनुमितिः । द्वितीयकल्पे च :"तादृशप्रतियोगितानवच्छेदकेन दंडत्वेन अवच्छिन्नस्य दंडिनः सामानाधिकरण्यम्" इति सामानाधिकरण्यांशे दंडस्याप्रवेशात् "दंडत्ववद्वान्" इति अनुमितिः । प्रथमे कल्पे दंड: एव संयोगेन साध्ये प्रकारीभूय भासते । द्वितीये कल्पे दंडत्वंः परंपरासम्बन्धेन प्रकारीभूय भासते इति ध्येयम् । जागदीश्यां तु "दण्डादिविधेयकत्वनियमः" इति उपात्तम् । तत्र दंड: विधेयः किन्तु दंडी विधेयः । तथापि विधेयघटकत्वेन दंडोऽपि विधेयतया प्रोक्तः इति स्मर्तव्यम् ।
[ननु तत्तद्वंड्यभावीयप्रतियोगितावच्छेदकतायाः तत्तद्वंडिनिष्ठायाः अवच्छेदकं तत्ताविशिष्टदंडत्वं शुद्धदंडत्वात् अभिन्नमेव । तथा च शुद्धदंडत्वं तादृशावच्छेदकतानवच्छेदकं न भवति । अतः कथं व्याप्तिसमन्वयः इति चेत् इत्थं । अत्रापि मते साध्यतावच्छेदकतावच्छेदक-तदितरानवच्छिन्नैव प्रतियोगितावच्छेदकता निवेश्या । तत्-तदंडादिनिष्ठा
*****♠♠♠♠♠♠paadaa
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ ૦ ૪૨
܀܀܀܀܀܀܀܀܀܀܀܀܀܀