________________
दीधितिः२ Fo
m ..................................... ............... अर्थात् तेषामपि दंडः एव साध्यतावच्छेदकत्वेन अभिमतः । किन्तु यदि संयोगेन दंडः साध्यतावच्छेदकः मन्यते तर्हि पूर्ववत् अव्याप्तिः । अतः स्ववृत्तिजात्याश्रयाधिकरणत्वसम्बन्धेन दंडिनि वर्तमानः दंडः साध्यतावच्छेदकः । [स्वं दंडः, तस्मिन् वर्तमाना या जातिः दंडत्वं, तदाश्रयः दंडः, तदधिकरणम् दंडी] एवं च नाव्याप्तिः। यतः साध्यतावच्छेदकसम्बन्धावच्छिन्ना एव प्रतियोगितावच्छेदकता ग्राह्या इति पूर्वमुपात्तम् । दंडिसंयोगाधिकरणे भूतलादौ वर्तमानानां तत्तदंड्यभावानां प्रतियोगितायाः तत्तदंडिनिष्ठाया तत्तदंडनिष्ठा प्रतियोगितावच्छेदकता यदि पूर्वपक्षानुसारेण , केवलं दंडत्वावच्छिन्ना उभयानवच्छिन्ना मन्यते । तथापि सा दंडनिष्ठा प्रतियोगितावच्छेदकता संयोगसम्बन्धावच्छिन्ना ।। साध्यतावच्छेदकपरंपरासम्बन्धेन तु अनवच्छिन्नैव । एवं च इयं प्रतियोगिता न लक्षणघटका । अतः अन्या प्रतियोगिता ग्राह्या, तदनवच्छेदकः दंडः एव साध्यतावच्छेदकः इति लक्षणसमन्वयात् नाव्याप्तिः । दंडिसंयोगिनि भूतलादौ परंपरासम्बन्धेन दंडवान् अस्ति एव, न तु तदभावः। अतः परंपरासम्बन्धेन दंडवतः अभावस्य लक्षणघटकत्वाभावात् नई लक्षणघटकीयप्रतियोगितायाः अवच्छेदकः दंडः भवितुमर्हति इति न कोऽपि दोषः । * एवं च दंडे दंडिव्यापकतावच्छेदकताज्ञानं भविष्यति । तथा च कारणसत्वात् "प्रासादः दंडिमान्" इति दंडिनि साध्ये दंडः प्रकारीभूय भासतेऽपि । एवं नानुभवसिद्धायाः अनुमितेः अपलापापत्तिः इति भावः । ___ "दंडिमान् प्रासादः" इति अत्र च कल्पे एतावान् विशेषः यदुत 'प्रासादः दंडिमान्' इति अनुमितिः यद्यपि, भविष्यति । तथापि तत्र दंडिनि पुरूषे दंडः संयोगेन नावभासते । किन्तु स्ववृत्तिजात्यधिकरणाश्रयत्वसम्बन्धेनैव भासते । साध्यतावच्छेदकः धर्मः साध्यतावच्छेदकतावच्छेदकसम्बन्धेनैव साध्ये प्रकारीभूय अनुमितौ भासते इति नियमात् ।। अन्यथा एतन्नियमाङ्गीकाराभावे "पर्वतः समवायेन वह्निमान्" इत्यपि अनुमितिः भवेत् । । ननु न वयं देवानांप्रियाः, किन्तु देवानुप्रियाः, अतः शठतां आदृत्य अस्माकं वञ्चना भवद्भिः कर्तुमिष्टाऽपि न शक्या । यदि नाम न भवतु परंपरासम्बन्धेन तत्तदंड्यभावः लक्षणघटकः । किन्तु अन्यः कोऽभावः लक्षणघटको भविष्यति? यत्प्रतियोगितायाः अनवच्छेदकाः दंडाः साध्यतावच्छेदकाः भविष्यन्ति । घटाभावः इति चेत् न, घटाभावीयप्रतियोगितावच्छेदकता घटत्वनिष्ठा । सा च समवायसम्बन्धावच्छिन्ना न तु स्ववृत्ति-दंडत्वजात्याश्रयदंडाधिकरणत्वादिसम्बन्धावच्छिन्ना । अतः सा प्रतियोगिता न गृह्यते । सम्बन्धे दंडत्वजातेः निवेशात् दंडभिन्ने कुत्रापि वस्तुनि स्ववृत्तिदंडत्वादिसम्बन्धो न घटते । केवलं दंडः एव स्ववृत्तिदंडत्वादिसम्बन्धेन दंडिनि स्थातुमर्हति । तदभावश्च न लक्षणघटकः । भूतले दंडिसंयोगवति तादृशपरंपरासम्बन्धेन दंडिनः सत्त्वात् । अन्यस्य कस्यापि अभावस्य प्रतियोगिताया, अवच्छेदकता न साध्यतावच्छेदकनिरुक्तपरंपरासम्बन्धावच्छिन्ना भवति । अतः अत्र साध्यतावच्छेदकसम्बन्धावच्छिन्नाया प्रतियोगितावच्छेदकतायाः अप्रसिद्धत्वात् न तद्घटितस्य लक्षणस्य समन्वयः शक्यः इति चेत्
सर्वथा सुष्ठुक्तं भवता अस्माकमपि इयमेवारेका आसीत् । जगदीशेन तु का "प्रतियोगिता ग्राह्या..." इत्यादि न: स्फुटीकृतम् । विवृत्तिकारेणऽपि केनाऽपि कारणेन एतत्स्फुटीकरणं उपेक्षितम् । तथापि महामेधाविनो एते.
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃતગુજરાતી સરલ ટીકાઓ - ૩૯