________________
दीधितिः२
विच्छेदकता क्रमशः पीतत्वरक्तत्वनीलत्वजातिनिष्ठा। सा अवच्छेदकता साध्यतावच्छेदकतावच्छेदकपीतत्वत्वरक्तत्वाद्यवच्छिन्ना । अर्थात् निरवच्छिन्ना साध्यतावच्छेदकतावच्छेदक-तदितरानवच्छिन्नैव । अतः ताः प्रतियोगिता लक्षणे प्रविष्टाः । तासां अवच्छेदिकाः क्रमशः पीतत्वादिजातयः एव साध्यतावच्छेदिकाः इति अव्याप्तिः । अत्र रूपत्वन्यूनवृत्तिजातिमान् साध्यः । तस्मात् साध्यतावच्छेदिकाः रूपत्वन्यूनवृतिजातयः नीलत्व-पीतत्व-रक्तत्वादयः ।। साध्यतावच्छेदकतावच्छेदकं नीलत्वत्वादि इत्यादि । तथा च अत्राव्याप्तिवारणाय रूपत्वमेव स्वन्यूनवृत्त्याश्रयत्वसम्बन्धेन *साध्यतावच्छेदकम् मन्तव्यम् । स्वं रूपत्वं, तस्य न्यून-वृत्तयः जातयः नीलत्वं, पीतत्वं, रक्तत्वं च । तदाश्रयाणि, नीलादिरूपाणि । तथा च कस्मिन्नपि घटे परंपरासम्बन्धेन रूपत्ववतः अभावो नास्ति । यतः सर्वाणि रूपाणि परंपरासम्बन्धेन
त्ववन्ति एव । घटे च किञ्चिदपि रूपं वर्तते एव । तथा च नीलरूपाद्यभावाः लक्षणे प्रविष्टाः तत्प्रतियोगितानवच्छेदकं रूपत्वं एव साध्यतावच्छेदकं इति लक्षणसमन्वात् नाव्याप्तिः। . अत्र "दंडिमान्" स्थले "रूपत्वन्यूनवृत्तिजातिमद्वान्" स्थले च अयं विशेषः । यदुत दंडिसाध्यके लक्षणघटका तत्दंड्यभावाः । तत्र तदंडनिष्ठा प्रतियोगितावच्छेदकता साध्यतावच्छेदकदंडत्व तदितरतत्तावच्छिन्नैव भवति । अतः अन्यां प्रतियोगितां गृहीत्वा लक्षणसमन्वयः भवति । द्वितीयस्थले च नीलरूपाद्यभावाः लक्षणघटकाः । तत्प्रतियोगितावच्छेदकता नीलत्वादिनिष्ठा केवलं साध्यतावच्छेदकतावच्छेदकनीलत्वत्वाद्यवच्छिन्ना अर्थात् निरवच्छिन्नैव । अर्थात् उभयानवच्छिन्नैव ।। अतः तासां प्रतियोगितानां लक्षणघटकत्वात् परंपरासम्बन्धेन रूपत्वस्य साध्यतावच्छेदकत्वानभिधाने नीलत्वादीनामेव च साध्यतावच्छेदकत्वे अभिमन्यमाने तासामेव तादृशप्रतियोगितावच्छेदकत्वात् भवति अव्याप्तिः । तद्वारणाय तत्र परंपरासम्बन्धेन रूपत्वस्य साध्यतावच्छेदकतानुसरणं निर्दुष्टम् । एतद्ग्रहणायैव दीधित्यां दंड्यादौ... इति आदिपदं: उपात्तम् । दंडत्वादीनां... इति अत्रापि आदिपदं उपात्तम् । तथा च यदि दण्डिसाध्यके दंडत्वस्य परंपरया साध्यतावच्छेदकतानुसरणं निरर्थकं प्रतिभाति । तदा रूपत्वन्यूनवृत्तिजातिमत्-साध्यके रूपत्वस्य साध्यतावच्छेदकता: अवश्यमेव मन्तव्या इति तस्य ग्रन्थस्य हार्दम् ।
अत्र यद्यपि रूपत्वं समवायेनैव रूपत्वन्यूनवृत्तिजातिमति रूपादौ वर्तते । ततः परंपरासम्बन्धेन तस्य साध्यतावच्छेदकतानुसरणं गौरवदोषदुष्टम् । तथापि अत्र कांचित् क्षतिं मनसिकृत्यैव दीधितिना समवायं त्यक्त्वा परंपरासम्बन्धः समादृतः "ननु का इयं क्षतिः" इति तु गहनपदार्थत्वात् न निरूप्यतेऽस्माभिः । जिज्ञासुना दीपिकाभिधाना टीका दृष्टव्या। કે ચન્દ્રશેખરીયા: ઉત્તર: તમારી વાત સાચી છે. પૂર્વપક્ષની વાતને સાચી માની લઈને પણ દીધિતિએ આપત્તિ દુર કરી આપેલી. હવે તમારી વાત પ્રમાણે ત્યાં ભલે અવ્યાપ્તિ ન આવે. પરંતુ રૂપત્વપૂનવૃત્તિજાતિમદ્યાનું રૂપાતું અહીં આવ્યાપ્તિ આવે. જ્યાં રૂપ છે ત્યાં રૂપ~નવૃત્તિ એવી નીલત્વાદિજાતિવાળા કોઈને કોઈ નીલાદિ રૂપો તો છે જ. એટલે આ સ્થાન સાચું છે. પણ છતાં અવ્યાપ્તિ આવશે તે આ પ્રમાણે-૩૫=હેતુના અધિકરણ તરીકે નીલ-પીત-રક્ત એ ત્રણ ઘટ લઈએ. અસત્ લ્પનાથી જગતુમાં ત્રણ જ રૂપ છે. એમ માની લઈએ. અહીં સાધ્ય તરીકે તાદશનીલત્વાદિજાતિમાનુનીલરૂપ, પીતરૂપ, રક્તરૂપ છે એમ માનીએ. હવે નિલઘટમાં પીતાભાવ,
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃતગુજરાતી સરલ ટીકાઓ ૯૩૭.
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀