________________
दीधितिः१
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
भवति । एवमत्रापि द्वितीयदंड्यभाव इति अत्र द्वितीयत्वं तत्ता-ऽपरनामा दंडनिष्ठो धर्मः । न तु दंडिनिष्ठः । अतः अभावस्य या प्रतियोगिता दंडिनिष्ठा । तदवच्छेदकः दंडिनिष्ठः दंड एव । न तु दंडिनि अवर्तमानं दंडे वर्तमान द्वितीयत्वादि । एवं च अत्र द्वितीयदंडाभावप्रतियोगितावच्छेदकः शुद्धदंडः तस्मिन् प्रतियोगितावच्छेदकता । अतः अत्र प्रतियोगिता साध्यतावच्छेदकदंडमात्रावच्छिन्ना । न तु साध्यतावच्छेदक-तदितरोभयावच्छिन्ना इति सा प्रतियोगिता लक्षणघटकीभूता जागदीशीपरिष्कृत लक्षणानुसारेणापि भवति । तत्प्रतियोगितावच्छेदकाः दंडाः एव साध्यतावच्छेदकाः इति अव्याप्तिः पूर्वपक्षेण जागदीशीपरिष्कृतलक्षणानुसारेण संभाविता ।
उत्तरपक्षणापि प्रथमं तावत् वह्निमान् धूमात् इति शुद्धसाध्यतावच्छेदकस्थले जातिमद्वान् इति विशिष्ट साध्यतावच्छेदकस्थले च अव्याप्तिः दर्शिता । साऽपि न केवलं दीधितिलक्षणानुसारेण । किन्तु जगदीशोक्तपरिष्कृतलक्षणानुसारेणापि । तथा हि पर्वते महानसीयवनिवृत्तित्वविशिष्टजातिमदभावः अस्ति, तत्प्रतियोगिता तादृशजातिमन्निष्ठा ।। अत्रापि महानसीयवह्निवृत्तित्वं जातेः एव विशेषणम् न तु जातिमतः । अतो जातिमन्निष्ठप्रतियोगितायाः अवच्छेदिका तादृशजातिमन्निष्ठा वह्नित्वजातिरेव, न तु तादृशजातिमति अवर्तमानं महानसीयवह्निवृत्तित्वं तदवच्छेदकं । एवं च अत्रापि प्रतियोगिता केवलं साध्यतावच्छेदकावच्छिन्नैव न तु साध्यतावच्छेदकतदितरभयावच्छिन्ना । अतः इयं प्रतियोगिता *लक्षणघटका, तदवच्छेदकं वह्नित्वं एव साध्यतावच्छेदकं इति अव्याप्तिः। . अत्र निरवच्छिन्ना प्रतियोगिता ग्राह्या इति परिष्कारात् अव्याप्तिः निर्गच्छति । तथा हि अत्र वह्नित्वे प्रतियोगितावच्छेदकता आगता, किन्तु इदं वह्नित्वं अत्र महानसीयवह्निवृत्तित्वविशिष्टं एव गृहीतं । अतः यथा यत्र दंडी साध्यम् तत्र साध्यतावच्छेदकः दंडः एव, नतु दंडनिष्ठदंडत्वं । किन्तु साध्यतावच्छेदकतायाः दंडनिष्ठाया। अवच्छेदकं दंडत्वं भवति । एवं अत्रापि महानसीयवह्निवृत्तित्वविशिष्टवह्नित्ववन्निष्ठा प्रतियोगिता केवलं. महानसीयवह्निवृत्तित्वोपलक्षितेन शुद्धवह्नित्वेनैव अवच्छिन्ना । एवं च वह्नित्वे प्रतियोगितावच्छेदकता आगता । सा च साध्यतावच्छेदकतावच्छेदकवह्नित्व-तदितरमहानसीयवह्निवृत्तित्वैतदुभयावच्छिन्नैव । न तु निरवच्छिन्ना । तथा च अत्र इयं प्रतियोगितावच्छेदकता निरवच्छिन्ना नास्ति, किन्तु घटत्वनिष्ठा घटाभावीयप्रतियोगितावच्छेदकता निरवच्छिन्ना ।। अतः सा प्रतियोगिता लक्षणे प्रविष्टा । तदनवच्छेदकं वह्नित्वं साध्यतावच्छेदकं इति लक्षणसमन्वयः।
'जातिमद्वान् घटत्वात्' स्थले पूर्वपरिष्कृत-लक्षणानुसारेण इत्थं अव्याप्तिः। घटे पटसमवेतत्वविशिष्टजातिमद्वदभावः । तत्प्रतियोगितावच्छेदकं पटसमवेतत्वोपलक्षिता जातिः एव । यतः पटसमवेतत्वं सामानाधिकरण्येन जातौ स्थितम्, न तु जातिमति । अतः जातिमन्निष्ठायाः प्रतियोगितायाः अवच्छेदकं जातिमति अवर्तमानं पटसमवेतत्वं? न भवितुमर्हति । किन्तु पटसमवेतत्वोपलक्षिता जातिः एव । तथा च इयं प्रतियोगिता साध्यतावच्छेदकमात्रावच्छिन्ना ।। अतः सा गृह्यते । तदवच्छेदिकाः जातयः एव साध्यतावच्छेदिकाः इति अव्याप्तिः । जगदीशोक्त-समाधानानुसारेण तु : तन्निरासोऽपि भवति । तथा हि जातौ प्रतियोगितावच्छेदकता साध्यतावच्छेदकतावच्छेदकजातित्व-तदितरपटसमवेतत्वा-2 विच्छिन्ना न तु तदनवच्छिन्ना इति नेयं प्रतियोगिता गृह्यते । किन्तु घटाभावीया प्रतियोगिता गृह्यते । तदनवच्छेदिका
stomission..........................rrrrrrrrrrrrrro કે
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃતગુજરાતી સરલ ટીકાઓ - ૨૦