________________
दीधिति: १
܀܀܀܀܀܀܀܀܀
܀܀܀܀܀܀܀܀܀܀
साध्यतावच्छेदक-वह्नित्वावच्छिन्न ( यत् किंचित्) वह्निनिरूपितसामानाधिकरण्यत्वात्। (हेतुः)
अनेन व्याप्तौ स्वेतरभेदानुमितिः क्रियते । अत्र पक्षः एव व्याप्तिरूपो लक्ष्यात्मको ज्ञेयः हेतुस्तु लक्षणम् ।
ननु केवलं धूमत्वावच्छिन्नधूमव्यापक वह्नित्वावच्छिन्नयावद्वह्निनिरूपितं सामानाधिकरण्यम् इत्येव पक्षः कर्तव्यः । हेतौ "तादृशवह्निनिरूपित-धूमत्वावच्छिन्नधूमनिष्ठ-सामानाधिकरण्यत्वात्" इति परिष्कारं कृत्वा धूमत्वावच्छिन्नधूमनिष्ठत्वविशेषणं दीयताम् इति चेत् तर्हि द्रव्यत्वावच्छिन्नधूमनिष्ठं तादृशसामानाधिकरण्यम् अपि पक्षान्तर्भूतम् । तत्र च धूमत्वावच्छिन्नधूमनिष्ठ-सामानाधिकरण्यत्वात्मकहेतोः असत्त्वात् भागासिद्धिः । अत्र धूमत्वावच्छिन्नधूमनिष्ठं सामानाधिकरण्यम् अपि पक्षान्तर्भूतम् । तत्र च हेतोः सत्त्वात् स्वरूपासिद्धिः न भवति । सर्वेषु पक्षेषु हेत्वभावः स्वरूपासिद्धिः, सर्वेषां पक्षानां मध्ये केषुचिदेव हेत्वभावस्तु भागासिद्धिः इति विवेकः । तथा च भवदुक्तानुमानस्वीकरणे भागासिद्धिदोषसंभवात् अनर्थकं तद् निरुपणम् ।
ननु तर्हि धूमत्वावच्छिन्नधूमनिष्ठं वह्निनिरूपितसामानाधिकरण्यम् स्वेतरभेदवत्तादृशप्रतियोगितानवच्छेदक (वह्नित्व) साध्यतावच्छेदकवह्नित्वावच्छिन्नवह्निसामान्यनिरूपितसामानाधिकरण्यत्वात् इति वक्तव्यम् । अर्थात् पक्षात् "वह्नित्वावच्छिन्नयावद्वह्निनिरूपितत्वं" निष्काश्य हेतुमध्ये प्रवेश्यम् । एवं करणे को दोषः इति चेत् सा एव भागासिद्धिः निप्प्रतिबन्धा। तथा हि-एवं हि धूमत्वावच्छिन्नधूमनिष्ठं महानसीयवह्न्यादिनिरूपितसामानाधिकरण्यं अपि पक्षान्तर्गतम् । तत्र च वह्नित्वावच्छिन्नयावद्वह्निनिरूपित सामानाधिकरण्यत्वात्मकहेतोः असत्त्वात् भागासिद्धिः । अतः यथोक्तमेव अनुमानं प्रतिपत्तव्यम् ।
ચન્દ્રશેખરીયા: કોઈપણ લક્ષણ એ લક્ષ્યને પક્ષ બનાવીને તેમાં સ્વેતરભેદની અનુમિતિ કરાવવામાં કામ આવે છે. જેમકે સાસ્નાવત્ત્વ એ ગાયનું લક્ષણ છે. તો ગૌઃ સ્વેતરભેદવતી સાસ્નાવત્થાત્ એ અનુમાન દ્વારા ગાયમાં ગો-ઇતરભેદની સિદ્ધિ થાય. અહીં પણ વ્યાપ્તિનું લક્ષણ બનાવીએ છીએ એટલે એ લક્ષણ વ્યાપ્તિ=પક્ષમાં=લક્ષ્યમાં સ્વેત૨ભેદનું અનુમાન કરાવી આપે. પણ અહીં લક્ષ્યનો આકાર તો બતાવવો જ પડે ને? દીધિતિમાં "તપવિશિષ્ટય તદ્ધર્માવચ્છિન્નયાવનિરૂપિત સામાનાધિકરણ્ય એ વ્યાપ્તિ" એ શબ્દો દ્વારા લક્ષ્યનો નિર્દેશ કરેલો છે. અને લક્ષણ તો આપણે જોઈ જ ગયા.
એટલે આ પ્રમાણે અનુમાન થાય કે
धूमत्वावच्छिन्नधूमनिष्ठं धूमव्यापकवह्नित्वावच्छिन्नवह्निनिरूपितं सामानाधिकरण्यं (पक्षः) स्वेतरभेदवत्
प्रतियोगि-असमानाधिकरण-धूमत्वविशिष्टधूमसमानाधिकरण-अभाव-प्रतियोगितानवच्छेदक-साध्यतावच्छेदक-वह्नित्वावच्छिन्न
(यत्किंचित्) वह्निनिरूपितधूमत्वावच्छिन्नधूमनिष्ठसामानाधिकरण्यत्वात् "(हेतुः )
આમાં પક્ષમાં ધૂમત્વાવચ્છિન્ન મુકવાને બદલે માત્ર ધૂમનિષ્ઠ" મુકીએ અને હેતુમાં જ તાદશવહ્નિનિરૂપિતએવું સામાનાધિક૨ણ્ય એ ધૂમત્વાવચ્છિન્નધૂમનિષ્ઠ ત૨ીકે લઈ લઈએ તો અનુમાનનો આકાર वह्नित्वावच्छिन्नवह्निनिरूपितं सामानाधिकरण्यम् स्वेतरभेदवत्.
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
܀܀܀܀܀܀܀
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ – ૧૯
܀܀܀܀܀܀܀