________________
दीधितिः९
܀܀܀
܀
܀܀܀
संसर्गस्तु तादात्म्यभिन्नो ग्राह्यः, तेन भेदव्युदासः। 'प्रागभावध्वंसयोरपि उत्तरकालपूर्वकालावेव प्रतियोगितावच्छेदकसम्बन्धाविति-ताभ्यामेव [सम्बन्धाभ्यां] प्रतियोग्यारोपः प्रागभावध्वंसयोः प्रत्यक्षे हेतुरतस्तयो व्याप्तिरिति’-प्राचामाशयः।
܀
܀
܀
܀܀
܀܀܀
܀܀
܀܀
܀܀
܀܀
܀܀
܀܀
܀
܀
܀܀
܀
܀܀܀
܀܀
܀ ܀
܀
܀ ܀
܀ ܀
܀܀
܀
܀܀
܀
܀
चन्द्रशेखरीयाः ननु तथापि लक्षणघटकं अत्यन्ताभावत्वं नाम सदातनत्वे सति संसर्गाभावत्वमेव । एवं च संसर्गाभावोऽपि लक्षणघटकोऽस्ति । संसर्गाभावत्वं च संसर्गारोपजन्यप्रतीतिविषयाभावत्वम् । स्वप्रतियोगितावच्छेदकसम्बन्धेन यः प्रतियोग्यारोपः तज्जन्यप्रतीतिविषयो योऽभावः, तत्वमिति यावत् । यथा संयोगेन घटाभावस्य प्रतियोगिताया। अवच्छेदकेन संयोगेन "यदि भूतले संयोगेन घटः स्यात् तर्हि उपलभ्येत" इति यः प्रतियोग्यारोपः, तेनारोपेन" भूतलं घटाभाववत्" इति या प्रतीतिः उत्पन्ना, तस्य विषयो अभावः घटाभावः एव इति तत्र लक्षणसमन्वयः । न च "घटभेदप्रतियोगितावच्छेदकतादात्म्यसम्बन्धेन यदि पटो घटः स्यात्, तदा घटत्वेनोपलभ्येत" इति यः प्रतियोग्यारोपः, तज्जन्यायाः "पटो न घट" इति प्रतीतेः विषयो घटभेदो भवति । अतः संसर्गाभावलक्षणं भेदेऽतिव्याप्तं इति वाच्यम् ।। तादात्म्यभिन्नसम्बन्धेनैव प्रतियोग्यारोपजन्यप्रतीतिविषयाभावत्वं" इति विवक्षितत्वात् । अत्र तु तादात्म्येनारोपः कृतः ।। अतः लक्षणाघटनात् नातिव्याप्तिः । न च तथापि ध्वंसप्रागभावप्रतियोगितावच्छेदकसम्बन्धस्यैवाप्रसिद्ध्या तत्र अव्याप्तिः भवेत् इति वाच्यम् "यदि अत्र उत्तरकालावच्छेदेन घटो भवेत् तर्हि उपलभ्येत "इति आरोपेण तत्र घटप्रागभावप्रतीतिः भवति । एवं "यदि अत्र पूर्वकालावच्छेदेन घटो भवेत् तर्हि उपलभ्येत" इति आरोपेण तत्र घटध्वंसप्रतीतिः भवति ।। अतः पूर्वकाल एव ध्वंसीयप्रतियोगितावच्छेदकसम्बन्धः प्रसिद्धः । अयं भावः । यत्र भूतले प्रथमप्रहरे विद्यमानो घट केनचिद् दंडादिना ध्वस्तः, तत्र गतः चैत्रः प्रतिपादयति यदुत अत्र भूतले यः घटः प्राक्काले आसीत्, इदानीं तस्य ध्वंसोऽस्ति । यतो यदि अत्र पूर्वकाले विद्यमानो घटो भवेत् ,तर्हि अवश्यं तस्य ज्ञानं भवेत् । न च भवति । तस्मात् 'घटध्वंसोऽस्ति' इति मन्तव्यम् । एवं यत्र कुलालशालायां कुलालो चक्रं भ्रमयित्वा घटं रचयति । तत्र घटोत्पत्तिपूर्वकाले . तत्र चैत्रो गतः । तेनोक्तं । अत्र चक्रे यो घटो उत्तरकाले उत्पत्स्यते, तस्य इदानीं प्रागभावः । यतो यदि उत्तरकाले , उत्पत्स्यमानो घटोऽत्र चक्रे भवेत् तदा तस्य प्रत्यक्षं भवेत् । न च भवति । अतः चक्रे तस्य प्रागभावो मन्तव्यः । एवं च प्रागभावध्वंसयोःप्रतियोगितायाः अपि अवच्छेदकसम्बन्धस्य प्रसिद्धत्वात् तत्रापि संसर्गाभावलक्षणसमन्वयो भवति इति नाव्याप्तिः। કે ચન્દ્રશેખરીયાઃ પ્રશ્નઃ અત્યન્તાભાવ એ એક પ્રકારનો સંસર્ગાભાવ જ છે. એટલે કે નિત્યસંસર્ગાભાવ રૂ૫ જ એ અત્યન્તાભાવ છે. આમ લક્ષણમાં "સંસર્ગાભાવ" શબ્દ તો આવી જ ગયો. અને સંસર્ગાભાવ= સંસર્ગારોપજન્યપ્રતીતિવિષયાભાવ" એવી વ્યાખ્યા છે. એટલે કે સ્વપ્રતિયોગિતાવચ્છેદકસંબંધથી જે પ્રતિયોગીનો જે આરોપ, તે આરોપથી જન્ય એવી પ્રતીતિનો વિષય એવો જે અભાવ, તે સંસર્ગાભાવ કહેવાય. જેમકે સંયોગથી ઘટાભાવ લઈએ તો ઘટાભાવપ્રતિયોગિતાવચ્છેદક સંયોગસંબંધથી "જો અહીં સંયોગથી ઘટ હોત તો દેખાત" એવો જે પ્રતિયોગી=ઘટનો આરોપ તેનાથી ઉત્પન્ન થનારી સંયોગેન ઘટાભાવવતુ" એ પ્રતીતિનો વિષય
܀܀
܀
܀
܀
܀܀܀
܀
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
-
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા” નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ - ૧૮૯
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀