________________
दीधितिः६
वर्तमानो विशिष्टसत्ताऽभावः स्वप्रतियोगिविशिष्टसत्ताऽभिन्नशुद्धसत्तासमानाधिकरण एव इति न स लक्षणघटकः ।। किन्तु घटाभावः इति साध्याभावस्य लक्षणाघटकत्वात् अभावान्तरमादायातिव्याप्तिः भवति । यथोक्तपरिष्कारे तु न दोषः । विशिष्टसत्ताऽभावप्रतियोगितावच्छेदकं विशिष्टसत्तात्वं, तदवच्छिन्ना विशिष्टसत्ता एव । सा च गुणे न वर्तते ।।
अतो गुणे वर्तमानो विशिष्टसत्ताऽभावः प्रतियोगितावच्छेदकविशिष्टसत्तात्वावच्छिन्नविशिष्टसत्ताऽसमानाधिकरण एव इति साध्याभावस्य लक्षणघटकत्वात् नातिव्याप्तिः । । ननु "निरुक्तपरिष्कारेऽक्रियमाणे वह्निमान् धूमात् इति अत्राव्याप्तिः भवति" इत्येव कथं नोक्तं? प्रतियोग्य
समानाधिकरणत्वं नाम प्रतियोगिताश्रयाधिकरणावृत्तित्वमेव । धूमाधिकरणे वह्नि-अभावः कालिकेन वर्तते । स च स्वप्रतियोगिताश्रयमहानसीयवह्नि-अधिकरणमहानसे अवर्तमानः एव अस्ति । प्रतियोगितायाः प्रतिप्रतियोगि भिन्नत्वात्। वह्नि-अभावप्रतियोगिताश्रयः पर्वतवह्निः, महानसीयवह्निः, चत्वरवह्निश्च पृथक् पृथक् ग्रहीतुं शक्यन्ते । यद्यपि महानसेऽपि वह्नि-अभावः कालिकेन अस्ति । तथापि पर्वतवृत्तिः वह्नि-अभावः न महानसे वर्तते इत्यतो निरुक्तरीत्याऽव्याप्तिः संभवति । तद्वारणाय एव प्रतियोगितावच्छेदकावच्छिन्न-समानाधिकरणत्वरूपः परिष्कारः समुचितः।। प्रति.योगितावच्छेदकवलित्वावच्छिन्नास्तु सर्वे वह्नयः । तत्र पर्वतीयवह्निरपि अन्तर्भूतः । स च पर्वते वर्तते । अतः पर्वतवृत्तिः वह्नि-अभावः प्रतियोगितावच्छेदकावच्छिन्नवह्निसमानाधिकरणः इत्यतः साध्याभावो न लक्षणघटकः ।। तस्मात् अभावान्तरमादाय लक्षणसमन्वयो भवति" इति एवंरीत्या कथं नोक्तं? दीधितिकारेण कथं प्रथमतः एव अतिव्याप्तिः प्रदर्शिता? इति चेत् ।
न, नवीनानां मते एकधर्मावच्छिन्ना प्रतियोगिता अनन्तप्रतियोगिषु अपि एकैव, न तु भिन्ना । तथा च वह्नित्वावच्छिन्ना प्रतियोगिता सर्वेषु वह्निषु एकैव । अतः उक्तपरिष्काराभावेऽपि न तेषां मतेऽव्याप्तिः संभवति । वह्नि-अभावस्य प्रतियोगितायाः आश्रयाः सर्वे वह्नयः, न तु पृथक् पृथक् वह्नयः ग्रहीतुं शक्यन्ते । तेषु मध्ये पर्वतवह्निरपि अस्ति। स च पर्वते वर्तते । अतः पर्वतवृत्तिः वह्नि-अभावः स्वप्रतियोगिताश्रय-समानाधिकरण एव इति न स लक्षणघटकः ।। अतोऽभावान्तरमादाय लक्षणसमन्वयो भवति । तथा च नवीनानां मतेऽव्याप्तिवारणाय अयं परिष्कारो न संभवति ।। परिष्कारं विनापि अव्याप्तेरभावात् । अत्र च सर्वोऽपि परिष्कारः प्रायः सर्वाभिमतः एव क्रियते इत्यतो "अव्याप्तिवारणाय तत्परिष्कारः कृतः" इति नोक्तं । किन्तु "विशिष्टसत्तासाध्यकस्थलेऽतिव्याप्तिवारणाय तादृशपरिष्कारः कृतः" इत्येव दीधित्यामुक्तमिति ध्येयम् । . अत्र जागदीश्यां "साध्यतावच्छेदकसम्बन्धेन प्रतियोगि-वैयधिकरण्यमात्रोक्तावपि" इति पाठः। तस्यार्थः "साध्यतावच्छेदकसंयोगसम्बन्धेन प्रतियोग्यसमानाधिकरणमात्रोक्तावपि" इति । अर्थात् संयोगसम्बन्धेन वह्निअभावप्रतियोगिताश्रयवह्निसामान्यस्य अधिकरणे अवर्तमान अभावः इति । विवृत्तिटीकायां तु वामाचरणेन "साध्यतावच्छेदकसम्बन्धेन" इति पदस्यार्थो न कृतः । यद्यपि तत्पदं आवश्यकमेव । अन्यथा वह्नि अभावप्रतियोगिताश्रयाणां सर्वेषां वह्निनां समवायेन अधिकरणानि वह्नि-अवयवाः, तेषु च अवर्तमानः, पर्वते कालिकेन वर्तमानः वह्नि-अभावः।
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા” નામની સંસ્કૃત ગુજરાતી સરલ ટીકાઓ - ૧૩૯
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀