________________
दीधितिः५
व्याप्यवृत्तित्वघटक-स्वाधिकरणवृत्तित्वस्य सम्बन्धसामान्येन प्रविष्टत्वात्। एतल्लाभार्थमेव ‘सर्वथैव व्याप्यवृत्तिसाध्यक' इत्युक्तं तस्य सम्बन्धविशेषानियन्त्रितत्वात्
. चन्द्रशेखरीयाः व्याप्यवृत्तिपदस्यैका व्याख्या दृष्टा । अधुना तस्य द्वितीया व्याख्या क्रियते । वस्तुतो इत्यादिना ।। साध्यतावच्छेदकसम्बन्धेन साध्याधिकरणं यत् भवति, तस्मिन् येन केनापि सम्बन्धेन वर्तमानस्य साध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिताकस्याभावस्य प्रतियोगिता यस्मिन् साध्ये न वर्तते, सं व्याप्यवृत्तिः । आत्मत्ववान् । ज्ञानवत्वात् इति अत्र साध्यतावच्छेदकसमवायसम्बन्धेनात्मत्वाधिकरणे आत्मनि समवायेनात्मत्वाभावस्य स्वरूपेण कालिकेन वाऽवर्तमानत्वात् न स अभावो गृह्यते । अतः आत्मनि वर्तमानस्य समवायावच्छिन्नप्रतियोगिताकस्य घटत्वाभावस्य प्रतियोगिता ग्राह्या, सा तु आत्मत्वे न वर्तते । अतः इदं साध्यं व्याप्यवृत्ति । अत्र न तद्विशेषणं लक्षणे निवेश्यम् ।। तद्विनापि लक्षणसमन्वयात्।
तथा हि- ज्ञानाधिकरणे आत्मनि आत्मत्वाभावस्य केनाऽपि सम्बन्धेनावर्तमानत्वात् घटत्वाभावादिकत्वमादाय लक्षणसमन्वयो भवति । सत्तावान् जाते. इति अत्र तु साध्यतावच्छेदकसमवायेन सत्ताधिकरणे द्रव्यादौ विशेषनिष्ठः सत्ताभावः कालिकेन वर्तते । तत्प्रतियोगिता समवायावच्छिन्नप्रतियोगिनि सत्तात्मके साध्ये वर्तते । अतः इदं साध्य अव्याप्यवृत्ति । तथा च अत्र तद् विशेषणं निवेशनीयमेव । तथा च हेत्वधिकरणे स्पन्दादौ कालिकेन सत्ताऽभावो यद्यपि अस्ति । तथापि स स्वप्रतियोगिसत्तासमानाधिकरणः एव । स्पन्दे सत्तायाः समवायेन सत्वात् इति न सत्ताऽभावो गृह्यते । तथा च घटाभावमादाय लक्षणसमन्वयः । एवं च हेत्वधिकरणे केनापि सम्बन्धेनाभावे गृह्यमाणेऽपि न कोऽपि दोषः ।। एवमेव घटत्वाभावाभाववान् गगनत्वात् इत्यादौ अपि विचारणीयम् । तथाहि-साध्यतावच्छेदकस्वरूपसम्बन्धेन कालिकावच्छिन्नप्रतियोगिक-घटत्वाभावाभावाधिकरणे गगने स्वरूपेण तादृशघटत्वाभावाभावाभावो घटत्वाभावस्वरूपो. विद्यते एव । तस्य प्रतियोगिता तादृशघटत्वाभावाभावात्मके साध्ये अस्ति । अतः इदं साध्यं अव्याप्यवृत्ति । तेन अत्र लक्षणे तद् विशेषणं समुपादेयम् । तथा च गगनत्वाधिकरणे गगने कालिकावच्छिन्नप्रतियोगिताक-घटत्वाभावाभावाभावस्य घटत्वाभावस्वरूपस्य विद्यमानत्वेऽपि स अभावः कालिकावच्छिन्नप्रतियोगिताकघटत्वाभावाभावात्मकस्वप्रतियोगिसमानाधिकरण एव । अस्य प्रतियोगिनः गगने विद्यमानत्वात् । अतः नायमभावो लक्षणघटकः इति अभावान्तरमादाय लक्षणसमन्वयो भवति । अत्र व्याप्यवृत्तिद्वितीयव्याख्यायां स्वाधिकरणे येन केनापि सम्बन्धेन अभावः प्रविष्टः, प्रथमव्याख्यायां तु स्वरूपेणैव अभावः प्रविष्टः इति विशेषः । एतद्वितीयव्याख्यालाभार्थमेव दीधित्यां "सर्वथैव" इति कथितम् । . अयं भावः । यत् साध्यं स्वाधिकरणे केनापि सम्बन्धेन वर्तमानस्य तादृशाभावस्याप्रतियोगी भवति (व्याप्यवृत्ति
भवति ।), तदेव सर्वथैव व्याप्यवृत्ति कथ्यते। यत् साध्यं स्वाधिकरणे स्वरूपेणैव वर्तमानस्य तादृशाभावस्य (साध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिताकस्य) अप्रतियोगि भवति, न तु कालिकादिनाऽपि वर्तमानस्याभावस्याप्रतियोगि।।
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃત ગુજરાતી સરલ ટીકાઓ - ૧૩૫