________________
दीधितिः५
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
तथा च द्रव्यत्वाभाववान् जातित्वादित्यादौ विशेषणताविशेषसम्बन्धेन जातित्वाभावबुद्धेविषयविधया प्रतिबन्धकतावच्छेदको यः स्वरूपसम्बन्धः, तेन जातित्वस्वरूपाभावस्य [तत्र] प्रसिद्धत्वादिति भावः।।
__ चन्द्रशेखरीयाः अत्रोच्यते साध्यतावच्छेदकसम्बन्धेन साध्यवत्ताप्रतीतिं प्रति... इति परित्यज्य साध्यतावच्छेदकसम्बन्धेन स्वप्रतियोगिमत्ताप्रतीतिं प्रति विषयविधया प्रतिबन्धकतावच्छेदको यः सम्बन्धः, तेन सम्बन्धेन हेत्वधिकरणेऽभावस्य विवक्षितत्वात् न कोऽपि दोषः । गगनं घटत्वाभावस्य कालिकेनाभाववान् गगनत्वात् इति अत्र यदि घटत्वाभावाभावाभावो, गृह्यते । तदा साध्यतावच्छेदकस्वरूपसम्बन्धेन घटत्वाभावाभावाभावप्रतियोगिघटत्वाभावाभाववत्ताप्रतीतिं प्रति गगनं. "कालिकेन घटत्वाभाववान्" इति ज्ञानं प्रतिबन्धकं । तथा च प्रतिबंधकतायाः विषयविधयाऽवच्छेदकः कालिकसम्बन्धः, *तेन सम्बन्धेन गगनत्वाभावाभावो यदि गृह्यते, तदा तु साध्यतावच्छेदकस्वरूपसम्बन्धेन गगनत्वाभावाभावप्रतियोगिगगनत्वाभाववत्ताप्रतीतिं प्रति "गगनं स्वरूपेण गगनत्ववान्" इति ज्ञानं प्रतिबन्धकं । तादृशप्रतिबंधकताया विषयविधयाऽवच्छेदकः स्वरूपसम्बन्धः, तेन सम्बन्धेन हेत्वधिकरणे गगने गगनत्वाभावाभावस्य सत्वात् स एव लक्षणघटकः । तत्प्रतियोगितानवच्छेदकं साध्यतावच्छेदकं घटत्वाभावाभावत्वं इति लक्षणसमन्वयः। __ सत्तावान् जाते: इति अत्र साध्यतावच्छेदकसमवायेन सत्ताऽभावप्रतियोगिसत्तावत्ताप्रतीतिं प्रति "स्वरूपेण सत्ताअभाववान्" इति ज्ञानं प्रतिबन्धकं । तथा च प्रतिबंधकतावच्छेदकः स्वरूपसम्बन्धो भवति । तेन सम्बन्धेन जात्यधिकरणे. द्रव्यादौ सत्ताऽभावस्य असत्वात् साध्याभावो न लक्षणघटकः। किन्तु साध्यतावच्छेदकसमवायसम्बन्धेन घटत्वाभावप्रतियोगिघटत्ववत्ताप्रतीतिं प्रति "स्वरूपेण घटत्वाभाववान्" इति ज्ञान प्रतिबन्धकं । तत्प्रतिबंधकतावच्छेदक स्वरूपसम्बन्धेन हेत्वधिकरणे गुणादौ घटत्वाभावः वर्तते । अतः तमादाय लक्षणसमन्वयः । __ द्रव्यत्वाभाववान् सत्वात् इति अत्र साध्यतावच्छेदकस्वरूपसम्बन्धेन द्रव्यत्वाभावाभावप्रतियोगिद्रव्यत्वाभाववत्ता प्रतीतिं प्रति "समवायेन द्रव्यत्ववान्" इति ज्ञानं प्रतिबन्धकं । तथा च विषयविधया प्रतिबंधकतावच्छेदकेन समवायसम्बन्धेन हेत्वधिकरणे द्रव्ये द्रव्यत्वाभावाभावस्य द्रव्यत्वस्वरूपस्य सत्वात् साध्याभाव एव लक्षणघटकः इति नातिव्याप्तिः । . द्रव्यत्वाभाववान् जातित्वात् इति अत्र तु साध्यतावच्छेदकस्वरूपसम्बन्धेन द्रव्यत्वाभावाभावप्रतियोगिद्रव्यत्वाभाववत्ताप्रतीतिं प्रति "समवायेन द्रव्यत्ववान्" इति ज्ञानं प्रतिबंधकं । तथा च विषयविधया तादृशप्रतिबंधकतावच्छेदकसमवायसम्बन्धेन जातित्वाधिकरणे जातौ कस्यापि वस्तुनः अवर्तमानत्वात् न साध्याभावो लक्षणघटकः ।। किन्तु जातित्वाभावाभावः । साध्यतावच्छेदकस्वरूपसम्बन्धेन जातित्वाभावाभावप्रतियोगि-जातित्वाभाववत्ताप्रतीतिं प्रति "स्वरूपेण जातित्ववान्" इति ज्ञानं प्रतिबन्धकं । तथा च विषयविधया तादृशप्रतिबन्धकतावच्छेदकस्वरूपसम्बन्धेन, जातित्वाधिकरणे जातौ जातित्वाभावाभावो जातित्वस्वरूपो वर्तते । तत्प्रतियोगितानवच्छेदकं द्रव्यत्वाभावत्वं इति लक्षणसमन्वयो भवति। . अत्रेदमवधेयम् सत्तावात् जातेः, द्रव्यत्वाभाववान् सत्वात् कालिकसम्बन्धावच्छिन्नप्रतियोगिताक-घटत्वाभावाभाववान् ।
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ - ૧૩
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀