________________
दीधितिः१
अत्र लक्षणे विवक्षिता । तादृशप्रतियोगितानवच्छेदकं एव साध्यतावच्छेदकं ग्राह्यम् । इत्थं च महानसीयवलिनिष्ठा प्रतियोगिता साध्यतावच्छेदकवलित्व-साध्यतावच्छेदकभिन्नमहानसीयत्वैतदुभयावच्छिन्ना । न तु उभयानवच्छिन्ना । तेन न सा गृह्यते । किन्तु पर्वतवृत्तिघटाभावीया घटनिष्ठा प्रतियोगिता गृह्यते, यतः सा प्रतियोगिता घटत्वमात्रावच्छिन्ना । न तु तादृशोभयावच्छिन्ना । तत्प्रतियोगितानच्छेदकं वह्नित्वं एव साध्यतावच्छेदकं । तदवच्छिन्नवह्निना समं हेतोः सामानाधिकरण्य अस्ति इति नाव्याप्तिः। . अत्रेदं तत्वं सम्यङमनसि स्थिरीकर्तव्यम् यदुत तत्तत्पदार्थे वर्तमान एव धर्मस्तत्तत्पदार्थे समागतस्य नूतनधर्मस्यावच्छेदको भवितुमर्हति । न तु तत्तत्पदार्थेऽवर्तमानो धर्मः । तथा हि - दंडे घटकारणताऽस्ति, ततश्च दंडनिष्ठ एव दंडत्वधर्मः तादृशकारणताया अवच्छेदको भवति । ये तु दंडेऽवर्तमानाः पटत्वादयो धर्माः । ते दंडनिष्ठाया घटकारणताया अवच्छेदका न भवितुमर्हन्ति । • इत्थञ्च कारणादिषु दंडादिषु वर्तमाना एव दंडत्वादयो धर्माः कारणतादीनां नूतनधर्माणामवच्छेदका भवन्तीति, स्थितम् ।
एवञ्च महानसीयवह्नयभावस्य प्रतियोगी यो महानसीयवह्निस्तत्र या प्रतियोगिता, सा महानसीयवलित्वधर्मेणावच्छिन्ना भवति । महानसीयत्वं वह्नित्वञ्च महानसीयवह्नौ वर्तत इति कृत्वा तौ द्वावपि धर्मो प्रतियोगिताया अवच्छेदको स्तः।। "भूतले नीलदंडवान् नास्ति" इत्यत्र नीलदंडवत्पुरुषाभावस्य प्रतियोगिता नीलदंडवत्पुरुष वर्तते । तस्मिन्पुरुषे नीलदंडोऽस्ति, दंडे च नीलरूपमस्ति । किन्तु नीलरूपं पुरुषे न वर्तते । ततश्च नीलदंडवत्पुरुषनिष्ठायाः प्रतियोगिताया अवच्छेदको धर्मः नीलरूपविशिष्टदंडात्मको नीलदंडो भवति । किन्तु तस्याः प्रतियोगिताया अवच्छेदकं नीलरूपं तु नैव कथ्यते । नीलरूपस्य पुरुपेऽवर्तमानत्वात्। ___ यदा तु "भूतले नीलदंडो नास्ति" इति चिन्त्यते । तदा तु नीलदंडे प्रतियोगिता विद्यते । तत्र च नीलरूपं दंडत्वञ्च वर्तते । ततश्च तौ द्वावपि धर्मों तादृशप्रतियोगिताया अवच्छेदको भवतः। एवञ्च सा प्रतियोगिता नीलरूपदंडत्वात्मकोभयधर्मावच्छिन्ना भवति । तत्र च "नीलदंडत्वावच्छिन्ना प्रतियोगिता" इत्यपि वक्तुं शक्यते । एतत्तत्वं मनसि दृढं स्थिरीकर्तव्यम् । अग्रेऽनेकशोऽस्योपयोगो भविष्यति।
ચન્દ્રશેખરીયાઃ પ્રશ્નઃ પર્વતમાં જે મહાનસીયવત્રિવિગેરેના અભાવ લીધા એ અભાવની પ્રતિયોગિતાનો અવચ્છેદક તો, મહાનસીયત્વજ્વહ્નિત્વ એમ બે ય બને છે. એમાં શુદ્ધ વહ્નિત્વ પોતે ય પ્રતિયોગિતાનો અવચ્છેદક તો જણાય જ છે. તો પછી તે વહ્નિત્વ પ્રતિયોગિતાવચ્છેદકથી ભિન્ન તરીકે શી રીતે લેવાય? આમ અવ્યાપ્તિ આવે જ છે. કે ઉત્તર: અહીં હત્યધિકરણવૃત્તિ એવા અભાવની પ્રતિયોગિતા એ સાધ્યતાવરચ્છેદક ધર્મ અને તભિન્નધર્મ એ બેથી અનવચ્છિન્ન હોય તે જ લેવાની. અને એનો અવચ્છેદક સાધ્યતાવચ્છેદક ન હોવો જોઈએ. અર્થાત્ સાધ્યતાવચ્છેદકસાધ્યતાવચ્છેદકભિન્નધર્મ આ બેથી અનવચ્છિન્ન એવી પ્રતિયોગિતાનો અનવચ્છેદક=અવચ્છેદકભિન્ન
܀
܀
܀
܀
܀
܀ ܀
܀ ܀
܀
܀
܀܀
܀
܀
܀
܀܀
܀܀
܀܀
܀܀
܀
܀
܀
܀
܀
܀
܀܀
܀ ܀
܀
܀ ܀
܀
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ - ૫