________________
दीधितिः५
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
܀܀܀
܀
܀
܀܀
܀
܀
तावतैवाभावत्वप्रतीतेः प्रमात्वसम्भवात्।
अत एव ‘साध्यताघटकसम्बन्धेन साध्यवत्त्वबुद्धेविषयविधया प्रतिबन्धकतावच्छेदको यः सम्बन्धस्तेन सम्बन्धेन हेतुसामानाधिकरण्यमभावस्य ग्राह्यमि'त्युक्तावपि न निस्तारः। तथाविधसम्बन्धन हेतुसामानाधिकरण्यस्याप्रसिद्ध्या प्रागुक्तगगनत्वादिहेतौ द्रव्यत्वाभाववान् जातित्वादित्यादौ चाव्याप्तेः।।
܀
܀
܀܀
܀
܀܀
܀
܀
܀
܀܀
܀܀
܀
܀܀
܀
܀
܀
܀܀
܀
܀
܀
܀܀
܀
܀܀
܀܀
܀
܀
܀
܀
܀܀
܀
܀܀
܀
܀
܀
܀܀
܀
܀
܀
चन्द्रशेखरीयाः न, साध्यतावच्छेदकसम्बन्धेन साध्यवत्वबुद्धिं प्रति यद् ज्ञानं प्रतिबंधकं भवति, तद्ज्ञाने विषयविधया प्रतिभासमानः यः सम्बन्धः तज्ज्ञाननिष्ठप्रतिबंधकतायाः विषयविधयाऽवच्छेदकः भवति । तेन सम्बन्धेन हेत्वधिकरणवृत्तिरभावो ग्राह्यः।
सत्तावान् जातेः इति अत्र साध्यतावच्छेदकसमवायेन "सत्तावान् घटः" इति प्रतीतिं प्रति समवायेन "सत्ताऽभाववान् । घटः" इति ज्ञानं प्रतिबंधकं भवति । अत्र घटे सत्ताऽभावः स्वरूपसम्बन्धेन भासते । अतः स्वरूपसम्बन्ध तादृशप्रतिबंधकतावच्छेदको भवति । तथा च अत्र स्थाने हेत्वधिकरणे स्वरूपेणाभावो ग्राह्यः । जात्यधिकरणे समवायावच्छिन्नप्रतियोगिताकसत्ताऽभावो न स्वरूपेण वर्तते किन्तु कालिकेन । अतः न स गृह्यते इति घटाद्यभावमादाय लक्षणसमन्वयः। * एवं द्रव्यत्वाभाववान् सत्वात् इति अत्र साध्यतावच्छेदकस्वरूपसम्बन्धेन "द्रव्यत्वाभाववान् घटः" इत्यादि प्रतीतिं प्रति समवायेन "द्रव्यत्ववान् घटः" इति प्रतीतिः प्रतिबंधिका भवति । तथा च तादृक्प्रतीतिनिष्ठ-प्रतिबन्धकताया। विषयविधयाऽवच्छेदकः समवायसम्बन्धः एव । अतः हेत्वधिकरणे समवायेन वर्तमानः एव अभावो ग्राह्यः । सत्ताधिकरणे द्रव्ये समवायेन द्रव्यत्वाभावाभावो वर्तते एव इत्यतो साध्याभावस्य लक्षणघटकत्वात् नातिव्याप्तिः भवति । अत्र प्रतिबंधकं ज्ञानं कुत्रचित् प्रमात्मकं ज्ञानं । कुत्रचित् च भ्रमात्मकं इति अन्यदेतत् । न तज्ज्ञानस्य प्रमात्वस्य भ्रमत्वस्य वाऽत्र किञ्चित् प्रयोजनम् ।
ननु एवं विवक्षणेऽपि गगनं घटत्वाभावस्य कालिकेनाभाववान् गगनत्वात् इति अत्र अव्याप्तिः भवति ।। घटत्वाभावो गगने स्वरूपेण वर्तते । कालिकेन तु कुत्रापि नित्यपदार्थे कस्यापि वस्तुनः अवर्तमानत्वात् गगने कालिकेन घटाभावः न वर्तते । अर्थात् घटाभावाभावः स्वरूपेण वर्तते । अतः अयं सद्धेतुः । किन्तु साध्यतावच्छेदकस्वरूपसम्बन्धेन कालिकसम्बन्धावच्छिन्नप्रतियोगिताकघटत्वाभावाभाववत्ताप्रतीतिं प्रति गगनं कालिकेन घटत्वाभाववान् इति ज्ञानं प्रतिबंधकं भवति । तज्ज्ञाननिष्ठप्रतिबन्धकतायाः विषयविधयाऽवच्छेदकः सम्बन्धः कालिकः । अतः हेत्वधिकरणे गगने कालिकेनैव अभावो ग्राह्यः । किन्तु तत्र कालिकेन कस्यापि अवर्तमानत्वात् अत्र कोऽपि अभावो लक्षणघटको न भवति इति अव्याप्तिः । यथा "संयोगेन घटाभाववान्" इति प्रतीतिं प्रति "संयोगेन घटवान्" इत्येव ज्ञानं प्रतिबंधकं, न तु "समवायेन घटवान्" इति ज्ञानं । अन्यथा कपाले समवायेन घटवत्ताप्रतीतेरनन्तरं एव कपाले "संयोगेन घटो नास्ति" इति प्रतीतिः न भवेत् । किन्तु भवति । एवमत्रापि "गगने कालिकेन घटत्वाभावो नास्ति" इति प्रतीतिं प्रति
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃત ગુજરાતી સરલ ટીકાઓ - ૧૨૯
܀܀
܀
܀
܀܀
܀
܀
܀
܀܀܀
܀
܀
܀܀
܀܀
܀
܀
܀
܀܀
܀܀
܀܀
܀
܀
܀
܀
܀
܀
܀
܀܀
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
܀
܀
܀
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀