________________
दीधितिः५
व्याप्तिभेदात्'-इति वदन्ति ।।५।।
जागदीशी -- *गुणस्येति ।-'सामान्याभाव' इति परेणान्वयः । ननु ‘आद्यक्षणे घटे गुणो नास्तीति प्रत्यक्षमसम्भवि; सन्निकर्षाद्यभावात् 'प्रथमक्षणे घटादौ गुणो नास्तीति व्यवहारादिकञ्च सन्दिग्धप्रामाण्यकमतः स्थलान्तरमाह - *प्रलयावच्छेदेनेति । तदानीं जन्यभावसत्त्वे प्रलय एव व्याहन्येतेति भावः।
चन्द्रशेखरीयाः अत्र नवीनाः इत्थं स्वमतं प्रतिपादयन्ति-संप्रदायविद्भिः "कपिसंयोगी एतवृक्षत्वात्" इत्यनुमाने प्रतियोग्यसमानाधिकरणपदप्रयोजनं प्रतिपादितं । तदनन्तरं पूर्वपक्षेण संयोगी द्रव्यत्वात् इत्यनुमाने, तत्पदप्रयोजनं प्रतिपादितं तस्य खंडनमपि ग्रन्थकारेण कृतम् । अस्माकं तु मतमिदं । प्रतियोग्यसमानाधिकरणपदानुपादाने "घट: गुणवान् घटत्वात्" इति अत्राव्याप्तिः भवति । तथाहि घटत्वाधिकरणे घटे उत्पत्तिकालावच्छेदेन गुणाभावो वर्तते । तत्प्रतियोगितावच्छेदकं एव साध्यतावच्छेदकं इति अव्याप्तिः । तद्विशेषणोपादाने तु अयं गुणाभावः। स्वप्रतियोगिगुणसमानाधिकरणः एव, घटे द्वितीयादिक्षणावच्छेदेन गुणस्य वर्तमानत्वात् । अतः नाव्याप्तिः भवति *इति भावः ।
ननु घटे उत्पत्तिकाले गुणसामान्याभावो वर्तते इति अत्र किं प्रमाणं? "उत्पत्तिकालीनघटो गुणसामान्याभाववान्" इति प्रत्यक्षमेव प्रमाणं इति चेत् न, यतः चाक्षुषप्रत्यक्षकारणं चक्षुःसंनिकर्षो भवति । उत्पत्तिकालीने घटे चक्षुःसंयोगो न भवति । यतः चक्षुःसंयोगः गुणः कार्यरूपः । तस्य च समवायिकारणं घटादि भवति । कारणं च कार्याव्यवहितपूर्ववर्ति एव भवति । तथा च यदि उत्पत्तिक्षणे घटचक्षुःसंयोगः उत्पादयितुं इष्यते । तदा तत्पूर्वक्षणे घटसत्ता आवश्यकी । सा च नास्ति इत्यतो कारणाभावात् न उत्पत्तिकाले चक्षुःसंयोगो भवति । तद्विना च उत्पत्तिकालीनघटे "गुणसामान्याभाववान्" इति प्रत्यक्षमपि न शक्यम् । तत्प्रत्यक्षं विना च उत्पत्तिकालीनघटे गुणसामान्याभावः केन प्रमाणेन सिद्धो भवेत्? । न च "गुणसामान्याभाववान् उत्पत्तिकालीनो घटः" इति व्यवहारः एव तादृशे घटे गुणसामान्याभावसाधको भविष्यति इति वाच्यम् । यस्य व्यवहारस्य प्रयोजकं प्रमात्मकं प्रत्यक्षं भवति, स एव व्यवहारो प्रामाणिकः मन्यते ।। भूतले घटविषयकप्रमात्मकप्रत्यक्षं एव "भूतले घटः" इति व्यवहारे प्रामाण्यं स्थापयति । अत्र च "उत्पत्तिकालीनो घटः गुणसामान्याभाववान्" इति प्रत्यक्षज्ञानाभावात् तादृशो व्यवहारः संदिग्धप्रामाण्यक एव । अतः न तेन व्यवहारेण घटे गुणसामान्याभावः साधयितुं शक्यः इति चेत् ___ अत्रोच्यते । संयोगवान् द्रव्यत्वात् इति अत्र तद्विशेषणानुपादानेऽव्याप्तिः भवति इति ज्ञेयम् । यतो द्रव्यत्वाधिकरणे । गगने महाप्रलयकालावच्छेदेन कोऽपि संयोगः न विद्यते । महाप्रलयत्वं नाम जन्यभावानधिकरणत्वं । सर्वे संयोगाः
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃત ગુજરાતી સરલ ટીકાઓ - ૧૧૧