________________
दीधितिः५
संयोगसामान्यानवच्छेदकत्वस्य असत्वात् स्वरूपासिद्धिः भवत्येव इति ज्ञेयम् ।
ચન્દ્રશેખરીયાઃ ઉત્તરપક્ષ: એ વાત જવા દો. પરંતુ વહ્નિસામાનાધિકરણ્ય તો દરેક ધૂમમાં જુદું જ છે. અને છતાં ધૂમત્વ એ તેનો અવચ્છેદક બને છે. એ તો માન્ય જ છે. તેમ અહીં પણ દ્રવ્યત્વ-વૃક્ષત્વાદિ એ જુદા જુદા દ્રવ્યોમાં કે અવયવોમાં રહેલા જુદા જુદા સંયોગોના અવચ્છેદક માની જ શકાય છે. આમ ધૂમતના દૃષ્ટાન્તથી આ વાત સિદ્ધ થઈ શકે છે. એટલે સ્વરૂપાસિદ્ધિ દોષ આવે જ છે.
. जागदीशी -- केचित्तु कथितव्याप्तावप्रयोजकत्वं, अन्यथा तदभावानवच्छेदकत्वहेतुना तदवच्छेदकत्वमेव कुतो न वृक्षत्वादेः साध्यते, वृक्षत्वाद्यवच्छेदेन तत्तत्संयोगव्यक्तीनां असत्वेऽपि संयोगसामान्यस्य सम्भवादित्यभिप्रायकः अयं ग्रन्थ इत्याहुः।
___ चन्द्रशेखरीयाः अत्र केचित् इत्थं पूर्वपक्षं खण्डयन्ति-"यत्र संयोगसामान्यानवच्छेदकत्वं तत्र संयोगसामान्याभावावच्छेदकत्वं" इति अत्र व्याप्तौ अप्रयोजकत्वं दोषः । "अस्तु संयोगसामान्यानवच्छेदकत्वं मास्तु संयोगसामान्याभावावच्छेदकत्वं को दोषः" इति व्यभिचारशङ्कानिवारकतर्काभावात् । यदि हि इयं व्याप्तिः सम्यगेव मन्यते । तदा तु तुल्ययुक्त्या इदमपि प्रतिपादयितुं शक्यम्, यत् वृक्षत्वं संयोगसामान्यावच्छेदकं संयोगसामान्याभावानवच्छेदकत्वात । यदि हि पूर्वपक्षो वदति यत वृक्षत्वे संयोगसामान्याभावानवच्छेदकत्वं न सिद्धं । यतो अस्माभिः अनुमानेन वृक्षत्वे संयोगसामान्याभावावच्छेदकत्वं साध्यते । तदा वयमपि प्रतिवदामो यत् हे पूर्वपक्ष! त्वं यदनुमान करोषि तत्रापि वृक्षत्वे संयोगसामान्यानवच्छेदकत्वकरूपो हेतुरसिद्धः । यतो अस्माभिः अनेन अनुमानेन वृक्षत्वे संयोगसामान्यावच्छेदकत्वं साध्यते । एवं च पूर्वपक्षानुमानं अप्रयोजकमेव भवति ।
ननु तथापि वृक्षे वृक्षत्वावच्छेदेन कस्यापि संयोगस्याविद्यमानत्वात् वृक्षे वृक्षत्वावच्छेदेन संयोगसामान्यं कथं भवेत्? अर्थात् वृक्षत्वं कथं संयोगसामान्यावच्छेदकं भवेत् इति चेत्? न, यथा हि एको मनुजः संपूर्णोपाश्रये व्याप्यवृत्तिः न भवति । तथापि सहस्रद्वयं यदि संपूर्णोपाश्रये तिष्ठति मनुजानां । तदा तत्र उपाश्रयत्वावच्छेदेन मनुजसत्ता प्रतिपाद्यते। एव । एवं कोऽपि संयोगः संपूर्णवृक्षे व्याप्यवृत्तिः नास्ति एव, तथापि तत्तदवयवावच्छेदेन तत्र वृक्षे अनेकानि सहस्राणि संयोगानां विद्यन्ते एव । तैः भृतोऽयं वृक्षः । अतः वृक्षत्वावच्छेदेन वृक्षे संयोगसामान्यसत्ताऽपि न विरुद्धा । अर्थात् वृक्षत्वे संयोगसामान्यावच्छेदकत्वं संभवति एव । अयमेवास्मदुक्तोऽभिप्रायः दीधितिग्रन्थस्य विज्ञेयः । अत्र केषाञ्चित् मतं समाप्तम् ।
ग्रन्थकारस्य जगदीशस्य अत्र कल्पेऽस्वरसः । यतः पूर्वपक्षानुमाने कोऽपि उपाधिः न संभवति । अतः निरुपाधिकत्वं एव प्रयोजकं अस्ति । तथा च पूर्वपक्षानुमाने अप्रयोजकत्वकथनं अनुचितम् । तस्मात् केषाञ्चित् मतं असम्यक् इति । एवं तावत् दीधित्यां सम्प्रदायविदां मतम् प्रतिपादितम् जागदीश्यां च तद्विवरणं प्रदर्शितम् ।
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ - ૧૦૯