________________
दीधिति: ५
***********
ગુણવિભાજકજાતિમાત્રાવચ્છિન્નસામાન્યાભાવ સાધ્ય અને ગુણવિભાજકજાતિમાત્રાવચ્છિન્નના યાવવિશેષાભાવો રૂપ હેતુ સ્થલે જ અમે ઉપાધિ આપીએ છીએ. સાધ્યને વ્યાપક તો ઉપાધિ બનાવી. હવે કોઈપણ એક સ્થાને હેતુને અવ્યાપક જ બનાવવાની છે. અને એ તો સંયોગત્વાવચ્છિન્નના યાવવિશેષાભાવરૂપ હેતુને અવ્યાપક બની જ જાય છે. એમ આગળ બતાવી ગયા છીએ.
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
दीधिति
एतेन-अयं संयोगसामान्याभाववान् संयोगयावद्विशेषाभाववत्त्वादिति निरस्तं, व्यर्थविशेषणत्वात्, अप्रयोजकत्वात्, न्निर्गुणत्वादेरुपाधित्वाच्च ।
न च प्रतियोग्यनवच्छेदकतयैव वृक्षत्वादेरभावावच्छेदकत्वं,
܀܀܀܀܀܀܀
गुणाद्यनवच्छेदकप्रमेयत्वादेस्तदभावावच्छेदकत्वप्रसङ्गात् ।
जागदीशी -- यत्तद्भ्यां विना कृतमनुगतमनुमानमाशङ्क्य निषेधति * एतेनेति* । वक्ष्यमाणदोषेणेत्यर्थः ।
चन्द्रशेखरीयाः एवं तावत् पूर्वपक्षं खण्डयितुं द्वौ दोषौ प्रतिपादितौ यत्तद्घटितव्याप्तेः अननुगतत्वं उपाधिवत्त्वं च। यदि द्वितीयो दोषः न प्रतिपाद्यते तदा प्रथमदोषनिराकरणाय पूर्वपक्षः इदमभिधातुं शक्नोति यदुत-वयं यत्-तद् घटितव्याप्तिं परित्यज्य "अयं वृक्षः संयोगसामान्याभाववान् संयोगयावद्विशेषाभावात् इति अनुमानं विशेषव्याप्तिं स्वीकृत्यैव कुर्मः । यद्यपि इदमेवानुमानं प्राक् कृतं, किन्तु तदा यत्तद्घटितव्याप्त्यनुसारेण कृतं । इदानीं तु यत्र संयोगयावद्विशेषाभावः तत्र संयोगसामान्याभावः इति स्वतन्त्रैव व्याप्तिः आदृता । यत्र गुणादौ संयोगयावद्विशेषाभावः वर्तते, तत्र संयोगसामान्याभावोऽपि वर्तते एव इति निर्दोषा इयं व्याप्तिः - किन्तु अस्माभिरुपाधिवत्वरूपो द्वितीयो दोषोऽपि दत्तः । तेन अस्य स्वतंत्रानुमानस्यापि खण्डनं संभवति । यतो निरवच्छिन्नवृत्तिकत्वविशिष्टया-: वत्संयोगविशेषाभाववत्वरूपः उपाधिः अत्रानुमाने भवति एव । तच्च प्रागेव बहुशो भावितं । तथा च पूर्वपक्षखंडनं : भवति ।
1
यद्यपि दीधित्यां "एतेन" पदमस्ति तस्यार्थः "अनन्तरोक्तोपाधिवत्वरूपदोषेण " इति न कृतः । किन्तु जागदीश्यां "वक्ष्यमाणदोषेण" इति अर्थः कृतः । दीधित्यामपि नूतनाः एव दोषाः प्रतिपाद्यन्ते । तैः दोषैः इदं पूर्वपक्षकृतं निरूपणं खण्डितं भवति । तथापि प्राक्प्रतिपादितं उपाधिवत्वमपि अत्र घटते इति कृत्वा अस्माभिस्तदपि परिभावितमिति बोध्यम् ।
ચન્દ્રશેખરીયા: પૂર્વપક્ષની વાતને તોડવા માટે આપણે બે વાત કરેલી છે. (૧) તમારું અનુમાન ય-તત્ થી
܀܀܀܀܀܀
܀܀܀܀܀
܀܀܀܀
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ – ૧૦૦
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
܀܀܀܀܀܀