________________
दीधितिः५
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
तेऽभावाः मूलवन्तो भवन्ति । किन्तु पक्षीसंयोगाभावः मूलीयगगनसंयोगाभावश्च न मूलावच्छेद्यौ, अतः तौ अभावौ न. अवच्छेद्यतासम्बन्धेन मूलवन्तौ । किन्तु मूलाभाववन्तौ । 1 तथा च तादृशमूलाभाववत्वविशिष्टौ द्वौ एव अभावौ वृक्षे स्तः । अन्ये अभावास्तु न तादृशमूलाभाववत्त्वविशिष्टाः । अतः वृक्षे तादृशविशिष्टाः यावद्विशेषाभावा न मीलन्ति । अतः स उपाधिः साधनाव्यापको भवति । गुणे च विद्यमानाः सर्वे एव संयोगविशेषाभावाः केनचिदनवच्छेद्याः इति तेऽभावाः अवच्छेद्यतासम्बन्धेन मूलाभाववन्तो भवन्ति । तथा च . गुणे तादृशमूलाभाववत्त्वविशिष्टाः यावत्संयोगविशेषाभावाः विद्यन्ते । अतः अयमुपाधिः साध्यव्यापकोऽपि भवति । . अत्रेदमवधेयं । यदि हि वृक्षे वर्तमानाः घटसंयोगाभावादयो व्याप्यवृत्तयः मन्यन्ते । तदा तु तेऽपि मूलानवच्छेद्याः एव भवन्ति । किन्तु तथापि वृक्षे मूलभिन्नेषु अवयवेषु ये गगनसंयोगकपिसंयोगादयो वर्तन्ते, तदभावास्तु तु सर्वेऽपि मूलावच्छेद्या एव भवन्ति इति तेऽभावाः अवच्छेद्यतासम्बन्धेन मूलवन्तो भवन्ति । न मूलाभाववन्तः भवन्ति । यदि च घटसंयोगाभावादयोऽपि वृक्षेऽव्याप्यवृत्तय एव मन्यन्ते । तदा तु सुतरां मूलनिष्ठपक्षीसंयोगादिभिन्नाः सर्वेऽप्यभावाः मूलावच्छेद्या एव भवन्ति इति ते सर्वेऽभावाः अवच्छेद्यतासम्बन्धेन मूलवन्तो भवन्ति इति केनापि प्रकारेण अयमुपाधि साधनाव्यापको भवति।
इदमत्र हृदयम् । कस्मिन्नपि द्रव्येऽन्यसंयोगो विद्यते वा न वा । तथापि तत्र गगनसंयोगादयस्तु सर्वदा भवन्त्येव ।। कस्यापि च संयोगाभावस्यावच्छेदकमपि द्रव्यमेव भवति । न गुणादिः । तच्च किमपि द्रव्यं अवच्छेद्यतासम्बन्धेन , स्ववर्तमानेषु अभावेषु तिष्ठन्त्येव इति कुत्रापि द्रव्ये अवच्छेद्यतासम्बन्धेन तादृक्द्रव्याभाववत्त्वविशिष्टाः यावत्संयोगविशेषाभावाः न भवन्त्येव इति अयमुपाधिः साध्यव्यापकस्साधनाव्यापकश्च भवति । . ग्रन्थकारस्यास्मिन्निरूपणेऽस्वरसः । तस्य कारणं तु इदं-रूपसामान्याभावसाध्यकस्थले अयमुपाधिः साध्यव्यापको न भवति । यतो रूपस्य व्याप्यवृत्तितया तदभावोऽपि व्याप्यवृत्तिरेव । तथा च तस्यावच्छेदकमेव न प्रसिद्धं । एवं च अवच्छेदकतासम्बन्धेन रूपाभाववद्धिकरणस्यैवाप्रसिद्ध्या तत्रोपाधिरेव न मीलति । अस्माभिश्च गुणविभाजकजातिमात्रावच्छिन्नप्रतियोगिताकाभावसाध्यके सर्वत्रोपाधिः दर्शनीयैव । तथैव प्राक् प्रतिज्ञा कृता इति नेदं मतं समीचीनं ।। अस्मदुक्तोपाधिव्याख्यानं तु रूपसामान्याभावस्थलेऽपि समीचीनं भवत्येव । तथा हि रूपसामान्याभावः गुणादौ वर्तते ।। तत्र च निरवच्छिन्नवृत्तिकत्वविशिष्टाः यावन्तो रूपविशेषाभावाः अपि वर्तन्ते एव इति अयमुपाधिः साध्यव्यापकोऽपि भवति । છે ચન્દ્રશેખરીયાઃ કેટલાંક લોકો એ ઉપાધિનો અર્થ આ રીતે કરે છે. એકાવચ્છેદન=અવચ્છેદકતાસંબંધથી કતદભાવાધિકરણભૂત એવો જે દેશ હોય તેનો અવચ્છેદ્યતાસંબંધથી અભાવ જેમાં રહે તેવા યાવવિશેષાભાવો
યાવવિશેષાભાવવત્વ) એ ઉપાધિ બનશે. વૃક્ષઃ સંયોગસામાન્યાભાવવાનું સંયોગીયાવદ્ વિશેષાભાવવતા માં કપિસંયોગ, પક્ષીસંયોગ, ઘટસંયોગ વિગેરે બધા જ સંયોગના અભાવો સાધ્ય તરીકે છે. ધારો કે મૂલમાં પક્ષી બેઠો છે. એટલે પક્ષીસંયોગ છે. અને શાખામાં કપિસંયોગ છે. એટલે મૂલમાં તો કપિસંયોગાભાવ જ છે. તેનો
܀܀
܀
܀܀
܀
܀
܀܀܀
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ - ૯૫