________________
܀܀܀܀
चन्द्रशेखरीयाः नमो दुर्वार रागादिवैरिवारनिवारिणे । अर्हते योगिनाथाय महावीराय तायिने । नव्यन्यायप्रणेतारो गंगेशोपाध्यायाः तत्त्वचिंतामणीग्रन्थे प्रत्यक्षादीनि चत्वारि प्रमाणानि निरूपितवन्तः तेषु यत् अनुमानप्रमाणखण्डं, तस्मिन् "व्याप्तिलक्षणं किं" इति जिज्ञासायां विभिन्नानि पञ्च लक्षणानि तैः निरूपितानि, पूर्वपक्षस्तु प्रमेयं वाच्यत्वात् इत्यादि केवलान्वयिसाध्यके हेतौ पञ्चानामपि लक्षणानां अव्याप्तिं सूचितवान्, तथा च तानि पञ्चापि लक्षणानि अयुक्तानि इति स्थितम् । एतत्सर्वं व्याप्तिपञ्चकाभिधेये ग्रन्थे विस्तरतो निरूपितम्, दृष्टं च अस्माभिः ।
साम्प्रतं गङ्गेशोपाध्यायाः सिद्धान्तलक्षणात्मकं उत्तरीभूतं ग्रन्थं प्रारभते अनुमानखण्डे ।
ચન્દ્રશેખરીયા: ગંગેશોપાધ્યાયજીએ તત્વચિંતામણી ગ્રન્થમાં પ્રત્યક્ષાદિ ચાર પ્રમાણોનું નિરૂપણ કરેલ છે. એમાં, અનુમાન પ્રમાણ ખંડમાં વ્યાપ્તિનું લક્ષણ શું? એ અંગે પાંચ જુદા-જુદા વ્યાપ્તિ લક્ષણો બતાવેલા. પૂર્વપક્ષે કેવલાન્વયિસાધ્યક સ્થલે એ પાંચેય લક્ષણોની અવ્યાપ્તિ બતાવી, એ લક્ષણોને ખોટા સાબિત કર્યા. એ બધું વિસ્તારથી વ્યાપ્તિપંચક નામના ગ્રન્થમાં જોઈ ગયા. હવે, ગંગેશોપાધ્યાયજી ઉત્તર આપે છે એ ઉત્તર એટલે જ
सिद्धान्त लक्षएा.
चिन्तामणि
अत्रोच्यते-प्रतियोग्यसमानाधिकरणयत्समानाधिकरणात्यन्ताभावप्रतियोगितावच्छेदकावच्छिन्नं यन्न भवति तेन समं तस्य सामानाधिकरण्यं व्याप्तिः ।
चन्द्रशेखरीयाः अत्र प्रासङ्गिकमिदमवधेयम् यदुत अनुमानखण्डनिष्ठं गंगेशोपाध्यायनिरूपितं सिद्धान्तलक्षणं स्तोकपदनिरूपितम्, दीधित्यां तस्य विस्तरः कृतः, जगदीश्यां तु दीधित्युक्तपदार्थानां सविस्तरं प्ररूपणं कृतम्, तथा चात्र प्राधान्येन दीधितिजागदीश्योः पदार्थाः विस्तरतो निरूपणीयाः अस्माभिः इति ।
प्रथमं तावत् अनुमानखंडनिष्ठं सिद्धान्तलक्षणं प्रदर्श्यते । प्रतियोगिव्यधिकरण - यदधिकरणवृत्ति - अभावप्रतियोगितावच्छेदका - वच्छिन्नं यत् न भवति, तेन समं तस्य सामानाधिकरण्यं व्याप्तिः ।
अस्य अर्थः→प्रतियोगि- अधिकरणे अवृतिः यः हेत्वधिकरणे वृत्तिः अभावः तत्प्रतियोगितावच्छेदकः यो धर्मः, तदवच्छिन्नं यत्, तस्मात् भिन्नं यत् साध्यम्, तेन साध्येन समं सामानाधिकरण्यं = साध्याधिकरणवृत्तित्वम् हेतुनिष्ठा व्याप्तिः इति ।
वह्निमान धूमात् इति अत्र वह्नि - अधिकरणे अवृतिः हेत्वधिकरणे महानसादौ वृत्तिः च वह्नि अभावो न मीलति, महानसादौ वह्नेः वृत्तित्वात्, किन्तु घटाभावादिः एव गृह्यते, तदभावप्रतियोगितावच्छेदकं घटत्वं, तदवच्छिन्नः घटः, तस्मात् भिन्नः वह्निः तेन वह्निना समं सामानाधिकरण्यं धूमे अस्ति, अतः धूमे व्याप्तिः समन्विता, तथा च
܀܀܀܀܀܀܀܀
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ – ૧