________________
१६
अथ मन्त्रस्नानम्" ॥
तीर्थं गत्वा नमस्कृत्य स्थानं संप्रोक्ष्य तत्र वस्त्रादिकं संस्थाप्य जले उत्तीर्य तीर्थान्यावाहयेत् -
गंगे च यमुने चैव गोदावी सरस्वति । नर्मदे सिन्धुकावेरी जलेस्मिन् संन्निधिं कुरु ॥ ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टानि ते रवे । तेन सत्येन मे देव तीर्थ देहि दिवाकर ! | ॐ क्रौं हंसः सूर्याय नमः । इति मन्त्रेणाऽङ्कुशमुद्रया तीर्थान्यावाह्य त्रिरुन्मज्जेत् । ततो शिरसि देवीं ध्यात्वा घटमुद्रया सप्तवार मभिसिंचयेत् । ततः त्रिराचम्य तीर्थ नत्वा (अत्रावकाशश्चेत् देवर्षि पितृतर्पणं कार्यम्) बहिरागत्य वासांसि संप्रोक्ष्य परिधारयेत् । ततस्तीरस्थमृन्मादाय वा भस्मना त्रिपुण्डं कुर्यात् । इति मन्त्रस्नानम् ॥
अथ मन्त्रसन्ध्या ॥
वैदिक संध्यां कृत्वा तान्त्रिक सन्ध्यां कुर्यात् । इति शास्त्रानुरोधात् वैदिक सन्ध्यां कृत्वा तान्त्रिक संन्ध्यां समारभेत । यथा अद्येत्यादिना संकल्प्य (अथवा देवीमातृकामानेन अष्टांगमुच्चार्य
૧ પહેલાંના કાળમાં નદી, તળાવ, વગેરે સ્થાન ઉપર જઈ સ્નાન કરવાના રિવાજ હતા. એટલે તીર્થ પડ્યા તેમ લખેલુ છે. આજકાલ મોટાભાગે ઘેર જ સ્નાન કરવું પડે છે, એટલે ધેર્ યથાવિધિ તેમ લખેલુ છે. વૈદિક સ્નાન અને તાંત્રિક સ્નાન એવા બે ભેદ છે. અહીં બતાવેલું મંત્રસ્નાન તે તાંત્રિક પદ્ધતિ મુજબનુ છે. મુદ્રાઓ માટે પરિશિષ્ટ જુએ.
}