________________
मया पूर्वदिनैतत्कालमारभ्यायेतत्वालपर्यन्तं कृतषट्शताधिककविशतिसहस्रमजपाजपमुच्छ्वासनिःश्वासात्मकं गणेशादिदेवताभ्यः समर्पयामि । इति सङ्कल्प्य :वादिवर्णचतुष्केण युक्ते पोतचतुर्दले । । आधारे तु गणेशाय पदशतं जपमर्पयेत् ॥१॥ .. वादिवर्णाद्यषट्पत्रे विद्रुमाझे स्वयंभुवे । स्वाधिष्ठाने षट्सहस्रसंख्याकं जपमर्पयेत् ॥२॥ डादिवर्णयुते विद्युन्निभे दशदलोज्ज्वले । विष्णवे मणिपुरे षट्सहस्रं जपमर्पयेत् ॥३॥ काधक्षरयुते नीलप्रभे द्वादशपत्रके । अनाहते षट्सहस्रं जपं रुद्राय चार्पयेत् ॥४॥ स्वरयुक्त धमवणे षोडशच्छदशोभिते । जीवात्मने विशुद्धाख्ये सहस्रं जपमर्पयेत् ॥५॥ हक्षयुते तप्तहेमनिभे द्विदलसंयुते । सहस्रं जपमाज्ञायामर्पयेत्परमात्मने ॥६॥ अशेषमातृकायुक्त चन्द्राभे शतपत्रके । अकुलाख्ये श्रीगुरवे सहस्रं जपमर्पयेत् ॥७॥ इति देवताभ्यो निवेद्य संकल्पं कुर्यात् । ॐ सूर्योदयमारभ्याहोरात्रेणोच्छ्वासनिःश्वासात्मक षट्शताधिकमेकविंशतिसहस्रसंख्याकमजपाजपमहं करिष्य इति संकल्प्याजपामन्त्रं पञ्चविंशतिबारं प्रजप्य (जप्त्वा) श्रीगुरोदक्षपाणौ समय श्रीनाथं देवीं च प्रणमेत् ॥