________________
परमगुरुः । ॐ ऐं ह्रीं श्रीं (ऐं क्लीं सौः सोऽहं हंसः शिवः) हस्खारें हसक्षमलवरय होः (सहखारे) सहक्षमलवरयो स्होः (सोऽहं हंसः शिवः स्वच्छप्रकाशविमर्शहेतवे श्रीपरमगुरवे नमः) अमुकाम्वासहितममुकानन्दनाथश्रीपादुकां पूजयामि नमः ।
परमेष्ठिगुरुः । ॐ ऐं ही श्री (ऐं क्लीं सौः हंसः शिवः सोऽहं हंसः) हफ्रे हसक्षमलवरयं हसौः (म्हखफे। सहक्षमलवरयीं स्होः (हंसः शिवः सोऽहं हंसः स्वात्मारामपञ्जरविलीनतेजसे श्रीपरमेष्ठिगुरवे नमः) अमुकाम्वासहितममुकानन्दनाथश्रीगुरुपादुकां पूजयामि नमः।
ततः सुमुखसुवृत्तचतुरस्त्रमुद्गरयोन्यादयः मुद्राः प्रदर्य गुरुपादुकापचकादिभिः' स्तोत्रैर्गुरु स्तुवोत । ततो मानसैः सम्पूज्य' स्वेष्टदेवतां ध्यात्वा तामुपचर्य यथाशक्ति मूलं प्रजपेत् ॥ * શ્રીવિદ્યામાં દીક્ષિત વ્યક્તિઓને સ્વસંપ્રદાય મુજબની મુરુપાદુકા વગેરેની દીક્ષા મળેલી હોય છે. આ આરાધનામાં દીક્ષાને ખૂબ મહત્વ આપેલું છે.
+ || गुरुपादुकापञ्चकम् ॥ ब्रह्मरन्ध्रसरसीरहोदरे नित्यलग्नमवदातमतम । कुण्डलीविवरकाण्डमण्डिते द्वादशार्णसरसीरुह भजे ॥१॥ तस्य कन्दलितकर्णिकापुटे क्लुप्तरेखमकथादिरेखया । कोणलक्षितहलक्षमण्डलीभावलक्ष्यमबलालयं भजे ॥२॥ तत्पुटे पटुतडित्कडारिमस्पर्द्वमानमणिपाटलप्रभम् । चिन्तयामि हृदि चिन्मय वपुर्नादबिन्दुमणिपीठमुज्ज्वलम् ॥३॥ ऊर्ध्वमस्य हुतभुशिखात्रयं तद्विलासपरिव्रहणास्पदम् । विश्वघस्मरमहोच्चिदोत्कटं व्यामृशामि युगमादिहंसयोः ॥४॥ तत्र नाथचरणारविन्दयोः कुङ्कुमासवपरीमरन्दयोः । द्वन्द्वबिन्दुमकरन्दशीतलं मानसं स्मरति मङ्गलास्पदम् ॥५॥