________________
१२७ कनिष्ठिके नियुञ्जीत निजस्थाने महेश्वरि ।
त्रिखण्डेयं समाख्याता त्रिपुराऽहवानकर्मणि ॥१९॥ १३ आषाहनादिषण्मुद्रा-~-आवाहनं स्थापनं च सन्निधापनरोधने ।
संमुखीकरणं चावगुण्ठनं चेति षट् कमात् ॥२०॥ हस्तद्वयं चोर्ध्वमुखमृज्वङगुलियुतं युतम् । अङगुल्यमाणि भुयानि कनिष्ठामूलभागतः ॥२१॥ अगुष्ठाप्रसमायोगान्मुद्रैषावाहनी मता । अधोमुखी चेयमेव स्थापनारूया समीरिता ॥२२॥ मुष्टियोदरयुता भवेत् सा सन्निीधापनी । इयमङगुष्ठगर्भात् तु सन्निरोधनरूपिणी ॥२३॥
इयमेवोत्तानरूपा संमुखीकरणाभिधा ॥२४॥ १३ सर्वसंक्षोभिणी तर्जन्यो दण्डवन्कुर्यान्मध्यमस्थे हनामिके।
सर्वसंक्षोभिणी मुद्रा त्रैलोक्यक्षोभकारिणी ॥२५॥ १४ प्रसर्वविद्वाविणी-मध्यमे तर्जनीयुक्ते सरले स्यात्तदा भवेत् ।
सर्वविद्राविणी मुद्रा द्रावयेत्सचराचरम् ॥२६॥ १५ सर्वाकर्षिणी-मध्यमे तर्जनीयुग्मे वक्रे कुर्यान्सुलोचने ।
__एतस्या एव मुद्रायास्तदाऽऽकर्षणकारिणी ॥२७॥ १६ सर्ववशकरीमुद्रा-विपरीतौ तलौ कृत्वा चाड्-गुली हुन्मुखा यजेत् ।
परिवर्तनमागेण क्रमेण निबिडास्ततः ॥२८॥ अड्गुष्ठावग्रदेशे तु तर्जन्यावकुशाकृती ।
सर्वा एकत्र संयोज्य सर्ववश्यकरी भवेत् ॥२९॥ १७ सर्वोन्मादिनीमुद्रा-पुटाञ्जलिकरौ कृत्वा मध्यमागर्भसंस्थिते ।
परस्परकनिष्ठे तु तर्जन्यप्रगते ततः ॥३०॥ अनामिके तु सरले मध्यमामुखदेशगौ ।
अगुष्ठौ परमेशानि सर्वोन्मादनकारिणी ॥३१॥ १८ महाशामुद्रा-एतस्या एव मुद्राया अनामातर्जनीक्रमात् ।
अकुशाकाररूपा तु मुद्रेयं तु महाकुशा ॥३२॥
१५ सर्वाकर्षिण सर्वविद्राविणी मनीयुक्ते सरल मा