________________
१२६
३ चतुरस्रमुद्रा- प्रागगुलायेयमेव चतुरस्रति शब्दिता ॥४॥ ४ मत्स्य मुद्रा- अष्ठद्वितयं पाश्वे'ऋजुरूपमधोमुखम् ।
मत्स्यमुद्रेयमाख्याता मण्डलादिप्रकल्पने ॥५।। ५ कूर्ममुद्रा-मत्स्यमुद्रा पुरा प्रोक्ता कनिष्ठातर्जनीद्वयम् ।
अधोमुखीकृतं देवी कूर्ममुद्रा भवेदियम् ॥६॥ ६ योनिमुद्रा-योनिमुद्रापि संप्रोक्ता चैवं मुद्रा तु पञ्चधा ।
परिवर्त्य करौ सम्यक्तर्जनीमने समे ॥७॥ मध्यमे कुरु तन्मध्ये योजयेत्तदनन्तरम् । अन्योन्यानामिके देवि कनिष्ठे बु यथा स्थिते ॥८॥ अगुष्ठाभ्यां योजिताभ्यां योन्याकारं तु कारयेत् ।
योनिमुद्रेयमाख्याता परा त्रैलोक्यमातृका ।।९।। ७ अंकुशमुद्रा-ऊर्ध्वमुष्टौ दक्षहस्ते तर्जनी वक्ररूपिणी ।
मुद्रेयमङ्कुशाख्या स्यात्तीर्थाहवानादिकर्मणि ॥१०॥ ८ कुम्भमुदा-हस्तद्वयं मुष्टिरूप ऋजुरूपा तु नर्जनी ।
दक्षाङ्गुष्टेऽपराङ्गुष्ठं क्षिप्त्वा हस्तद्दयेन तु ॥११॥ सावकाशात्मिकांमुष्टि कुर्यात् सा ।
कुम्भमुदिकाति । इयमेव घटमुद्रा ॥१२॥ ९ धेनुमुद्रा- तर्जन्यादिचतुष्कं वै प्रोतं हस्तद्वयस्थितम् ।
दक्षतर्जन्यनामायाँ वाममध्यकनिष्ठके ॥१३॥ वामतर्जन्यनामायां दक्षमध्यकनिष्ठिके ।
अधोमुखी धेनुमुद्रा त्वमृतीकरणे मता ॥१४॥ १० असमुद्रा-अस्त्रपूर्ववदेवेहं रक्षणे संप्रकीर्तितम् ॥१५॥ ११ गालिनीमुद्रा-कनिष्ठाङ्गुष्ठको सक्ती करयोरितरेतरम् ।
तर्जनी मध्यमानामा संहता भुग्न वजिता ॥१६॥
__मुद्रषा गालिनी प्रोक्ता शंखतोय विशोधने ॥१७॥ १२ त्रिखंडामुद्रा-परिवर्त्य करौ स्पृष्टावङगुष्ठौ कारयेत् समौ ।
अनामाऽर्गत कृत्वा तर्जन्यौ कुटिलाकृति ॥१८॥