________________
७४
कर्पूरमञ्जरी ...
विदूषकः-के के ? विचक्षणा-कुरवअतिलअअसोआ। विदूषकः--ता किं तेहिं ? विचक्षणा-भणिदा सा देवीए । जधा,कुरवअतिलअअसोआ आलिंगणदसणग्गचलणहआ।
विअसंति कामिणीणं ता ताणं देहि दोहलअं॥४३॥ एण्हि तं संपादइस्सदि।
.
विदूषकःकः कः ? विचक्षणाकुरबकतिलकाशोकाः। विदूषकःतत्कि तैः ? विचक्षणाभणिता सा देव्या । यथा,
कुरबकतिलकाशोका आलिङ्गनदर्शनाग्रचरणहताः ।
विकसन्ति कामिनीनां तत्तेषां देहि दोहदकम् ॥ यद्यस्मात्कारणात्कामिनीनामालिङ्गनदर्शनाग्रचरणहताः सन्तः कुरबकादयो वृक्षा विकसन्ति उत्फुल्ला भवन्ति, तत्तस्मात्तेषां दोहदकं देहीति यत्पदाध्याहारेण योज्यम् । यद्वा,-तदिदमिति तच्छब्देन पूर्वोक्तालिङ्गनादि परामृश्य योज्यम्, तदा न यत्पदाध्याहारः । कुरबकादित्रयस्य कामिन्यालिङ्गनादित्रयेणैव विकासो वर्ण्यत इति कविसंप्रदायः । तथोक्तम्-'पादाहतः प्रमदया विकसत्यशोकः शोक जहाति बकुलो मुखसीधुसिक्तः । आलिङ्गितः कुरबकः कुरुते विकासमालोकितस्तिलक उत्कलिको विभाति ॥' इति । 'आलिङ्गनेनैव मृगायताक्ष्याः प्रफुल्लतां वै तिलकः