________________
कर्पूरमञ्जरी
अवि अ,- .
रणंतमणिणेउरं झणझणंतहारच्छडं ___ कलक्कणिदकिंकिणीमुहरमेहलाडंबरं । विलोलवलआवलीजणिदमंजुसिंजारवं __ण कस्स मणमोहणं ससिमुहीअ हिंदोलणं ॥ ३२॥ विदूषकः-भो ! सुत्तआरो तुवं । अहं पुण वित्तिआरो भविअ वित्थरेण वण्णेमि । नादुन्नमन्ती ऊर्ध्व गच्छन्ती नमन्ती पुनरधो यान्ती आयान्ती यान्ती चेयं दोला कस्य कामिनो मनोहरणं न करोति ? अपि तु सर्वस्य विधत्त इति काक्वर्थः । इयं च दोलाखरूपवर्णनाजातिः । तल्लक्षणं काव्यादर्श दण्डिनोक्तम् (२८)'नानावस्थं पदार्थानां रूपं साक्षाद्विवृण्वती। खभावोक्तिश्च जातिश्चेत्याद्या साऽलंकृतिर्यथा ॥' इति । उपमानुप्रासादयोऽन्येऽप्यलंकारा ज्ञेयाः । अपि च,
रणन्मणिनूपुरं झणाझणायमानहारच्छटं __ कलक्वणितकिङ्किणीमुखरमेखलाडम्बरम् । विलोलवलयावलीजनितम शिक्षारवं · न कस्य मनोमोहनं शशिमुख्या हिन्दोलनम् ॥ शशिमुख्या हिन्दोलनं कस्य कामिनो मनोमोहनं न, मनो मानसं मोहयति तदेतादृशं न ? अपि तु सर्वस्यापीति काकुः । किंभूतम् ? रणन्तो मणयो ययोस्ते रणन्मणी, रणन्मणी नूपुरे यत्र तत् । झणझणायमाना हारच्छटा यत्र । इत्यादीनामान्दोलनविशेषणत्वम् । अथवा क्रियाविशेषणानि । यद्वा,-शशिमुख्या रणनूपुरादिकस्य मनमोहनं नेति प्रत्येकमेव विधिः । तदा दोलनांशे प्रत्यक्षमन्यांशे स्मरणम् । 'रण शब्दें। 'झणझणायमानं' इत्यादि शब्दानुकरणम् । अत्राप्यनुप्रासजात्याद्याः शब्दार्थालंकारा ज्ञेयाः । विदूषकःभोः ! सूत्रकारस्त्वम् । अहं पुनर्वृत्तिकारो भूत्वा विस्तरेण वर्णयामि । सूचनाद्धि सूत्रत्वं भवतीति भावः । अत एव तल्लक्षणमुक्तमभियुक्तैः'स्वल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवयं च सूत्रं सूत्रविदो विदुः ॥ इति ।