________________
द्वितीयं जवनिकान्तरम्
४९
P
विदूषकः - ( पुरोऽवलोक्य 1 ) एसो पिअवअस्सो हंसो विअविमुकमाणसो, करी विअ मअक्खामो, मुणालदंडो विअ घणघम्ममिलाणो, दिणदिण्णदीवो विअ विअलिअच्छाओ, पभादपुण्णिमाचंदो विअ पंडुरपरिक्खीणो चिट्ठदि ।
उभौ - ( परिक्रम्य । ) जअदु जअदु महाराओ ।
राजा - अस्स ! कहं पुणो वि विअक्खणाए मिलिदो सि ? विदूषकः - अज्ज विअक्खणा मए सह संधि का आअदा । किदसंधीए एदाए सह मंतअंतस्स एत्तिआ वेला लग्गा ।
राजा - संधिकरणस्स किं फलं ?
विदूषकः
एष प्रियवयस्यो हंस इव विमुक्तमानसः, करीव मदक्षामः, मृणालदण्ड इव घन धर्मम्लानः, दिनदीप इव विगलितच्छायः, प्रभातपूर्णिमाचन्द्र इव पाण्डुरपरि - क्षीणस्तिष्ठति ।
विमुक्तमानस उद्विग्नमनाः । हंसपक्षे-विमुक्तं त्यक्तं मानसं सरो येनेत्यर्थः । हंसोपमानेन पाण्डुरतातिशयोऽस्य द्योत्यते । पाण्डुरश्च परिक्षीणश्चेत्यर्थः ।
उभौ
जयतु जयतु महाराजः ।
राजा
वयस्य ! कथं पुनरपि विचक्षणया मिलितोऽसि ?
विदूषकः
अद्य विचक्षणा मया सह संधिं कर्तुमागता । कृतसंध्यैतया सह मन्त्रयमाणस्यै
तावती वेला लग्ना ।
राजा
संधिकरणस्य किं फलम् ?
क० म० ४