________________
२७
प्रथमं जवनिकान्तरम् देवी-कीदिसी अज्जकविजलेण विणा गोठ्ठी, कीदिसी उण णअणंजणेण विणा पसाहणालच्छी ।
(नेपथ्ये।) ण हु ण हु आगमिस्सं । अण्णो को वि पिअवअस्सो अण्णेसीअदु । अहवा एसा दुट्ठदासी लंबकुच्चं टप्परकण्णं पडिसीसअं देइअ मह हाणे उवहसणत्थं कीरदु । अहं एक्को मुदो तुम्हाणं सवाणं मज्झम्मि । तुम्हे उण वरिससअं जीवध ।
विचक्षणा-मा अणुसंधेध । अणुणअकक्कसो खु कविंजलो बंभणो सलिलसित्तो विअ सणगुणगंठी दिदं गाढदरो भोदि। णं दसणीअं दीसदु ।
ईदृशं राजकुलं दूरे वन्द्यतां यत्र दासी ब्राह्मणेन समं प्रतिस्पर्धा करोति । तदद्यप्रभृति निजगेहिन्या वसुंधरानामधेयाया ब्राह्मण्याश्चरणशुश्रूषुर्भूत्वा गेह एव स्थास्यामि ।
देवी
आर्यपुत्र ! कीदृशी आर्यकपिञ्जलेन विना गोष्टी, कीदृशी पुनर्नयनाजनेन विना प्रसाधनलक्ष्मीः ।
ण इति। न खलु न खल्वागमिष्यामि । अन्यः कोऽपि प्रियवयस्योऽन्विष्यताम् । अथवैषा दुष्टदासी लम्बकुचा टप्परकर्णा प्रतिशीर्षकं दत्त्वा मम स्थान उपहसनार्थ क्रियताम् । अहमेको मृतो युष्माकं सर्वेषां मध्ये, यूयं पुनर्वषेशतं जीवत ।
टप्परो वंशपात्रम् । 'टोपला' इति भाषायाम् । तद्वत्कौँ यस्याः। प्रतिशीर्षकलक्षणमुक्तम् । मम स्थान इति मदीयो वेषोऽन्यस्मै दातव्य इत्यर्थः । विचक्षणा
माऽनुबनीत । अनुनयकर्कशः खलु कपिञ्जलब्राह्मणः सलिलसिक्त इव शणगुणग्रन्थिदृढं गाढतरो भवति । ननु दर्शनीयं दृश्यताम् ।
.