________________
कर्पूरमञ्जरी
विदूषकः - कथं पंजरंगदा सारि व कुरुकुराअंती चिट्ठसि ? ण किं पि जाणासि । ता पिअवअस्सस्स देवी पुरदो पढिस्सं । जदो ण कत्थूरिआ कुग्गामे वणे वा विक्किणीअदि, णेदं सुवण्णं कसवट्टिभं विणा कसी अदि ।
२०
राजा - पिअवअस्स ! ता पढ । सुणीअदु ।
( विदूषकः पठति । )
फुल्लुक्करं कलमकूरसमं वदंति जे सिंधुवारविडवा मह वल्लहा ते । जे गालिअस्स महिसीदहिणो सरिच्छा ते किं च मुद्धविअइल्लपसूणपुंजा ॥ १९ ॥
विदूषकः
त्वं पुनः पञ्जरगता सारिकेव कुरुकुरायमाणा तिष्ठसि ? न किमपि जानासि । तत्प्रियवयस्यस्य देव्याः पुरतः पठिष्यामि । यतो न कस्तूरिका कुग्रामे वने वा विक्रीयते, न सुवर्ण कषपट्टिकां विना कष्यते ।
ईदृशकवित्वाश्रयणायोग्याया अज्ञायास्तव सविधे न पठिष्यामीति भावः ।
राजा
प्रियवयस्य ! तत्पठ । श्रूयताम् ।
अस्माभिरिति शेषः ।
फुल्ल इति ।
पुष्पोत्करं कलमकूरसमं वहन्ति
ये सिन्दुवारविटपा मम वल्लभास्ते ।
ये गालितस्य महिषीदनः सदृक्षास्ते किं च मुग्धविचकिलप्रसूनपुञ्जः ॥
है
कूर ओदनः । विचकिलास्तरुमेदाः । 'मम वल्लभा' इत्यनेन स्वस्य कामकलाकुशलत्वं व्यङ्ग्यम् ।