________________
प्रथमं जवनिकान्तरम् भाव ! कहिजदु एअं को भण्णइ रअणिवल्लहसिहंडो। रहुउलचूडामणिणो महिंदवालस्स को अ गुरू ॥५॥ स्थापक:-(विचिन्त्य ।) अए, पण्होत्तरं खु एदं । (प्रकाशम् ।) राअसेहरो।
पारिपार्श्वकः-सो एदस्स कई । स्थापकः-किं सट्टअं? पारिपाचकः-(स्मृत्वा।) कधिदं जेव छइल्लेहिं,
सो सट्टओ त्ति भण्णइ'दूरं जो णाडिआएँ अणुहरह । किं उण पवेसविकंभंकाई केवलं ण दीसंति ॥ ६॥ भाव ! कथ्यतामेतत्को भण्यते रजनीवल्लभशिखण्डः। रघुकुलचूडामणेर्महेन्द्रपालस्य कश्च गुरुः॥ राजशेखरकविनाम्नः पर्यायो रजनीत्यादिः । स्थापकः-विचिन्तनं खगतपर्यायः। अश्राव्यं स्वगतं मतम्' इति तल्लक्षणम् । पण्ह इति । अये, प्रश्नोत्तरं खल्वेतत् । मया पृष्टेऽनेनेदृशमुक्तं चेदत्रोत्तरमस्तीत्यर्थः । प्रकाशमिति । 'सर्वश्राव्य प्रकाशं स्यात्' इति तल्लक्षणम् । राअ इति। राजशेखरः। काका वदतिस एतस्य कविः । 'गोत्रं नाम च बध्नीयात्' इत्युक्तेः कविनामोतिः । किं सट्टकम् ? कधिदं इति। कथितमेव विदग्धैः
तत्सट्टकमिति भण्यते दूरं यो नाटिकाभिरनुहरति । किं पुनः प्रवेशकविष्कम्भको केवलं न दृश्यतः ॥