________________
महाकविश्रीराजशेखरकृता
कर्पूर मञ्जरी
वासुदेवकृतया टीकया समेता
-प्रथमं जवनिकान्तरम् - भई होउ सरस्सईअ कइणो णदंतु वासाइणो ___ अण्णाणं पि परं पअट्टउ वरा वाणी छइल्लप्पिआ। वच्छोमी तह माअही फुरदु णो सा किं च पंचालिआ
रीईओ विलिहंतु कव्वकुसला जोण्हं चओरा विअ ॥१॥ दशास्योद्यदास्यच्छिदं जानकीशं कुलोपास्यमानम्य साष्टाङ्गपातम् । गणेशं च गण्डोल्लसद्भङ्गसङ्गं हरोच्चाङ्गसङ्गांश्च गङ्गातरङ्गान् ॥
तातं प्रभाकरं नत्वा मातरं गोमतीमपि ।
__कर्पूरमारीटीका वासुदेवेन तन्यते ॥ कर्पूरमञ्जर्याख्यसैट्टकारम्मे सूत्रधार आशीरूपां नान्दी पठतिभइमिति।
भद्रं भवतु सरस्वत्याः कवयो नन्दन्तु व्यासादयः ___ अन्येषामपि परं प्रवर्ततां वरा वाणी विदग्धप्रिया । वैदर्भी तथा मागधी स्फुरतु नः सा किं च पाञ्चालिका
रीतिका विलिहन्तु काव्यकुशला ज्योत्स्नां चकोरा इव ॥ अत्र च 'व्यासादय' इत्यादौ 'सरखत्या' इत्येतत्प्रभृति षष्ठ्यन्तत्वोपक्रमभङ्गाभासेऽपि 'भवतु' इत्यादिप्रधानक्रियापदानां लोडन्तत्वप्रक्रमः सर्वत्राविहत इति न प्रक्रमभङ्गः शयः । तेन रीतिनाम शब्दगुणः । यथोक्तं सरस्वतीकण्ठाभरणे ( १७६ )-'उपक्रमस्य निर्वाहो रीतिरित्यभिधीयते' इति । सरखत्याः सततं
१ अत्र 'साटक' इति पाठः कचित् ; तल्लक्षणं चोक्तं साहित्यदर्पणे (६।२७६) 'सट्टकं प्राकृताशेषपाठ्यं स्यादप्रवेशकम् । न च विष्कम्भकोऽप्यत्र प्रचुरश्चागुतो रसः। अङ्का जवनिकाख्याः, स्यादन्यन्नाटिकासमम् ।' इति । विशेषस्तु भावप्रकाशे द्रष्टव्यः।