________________
बालभारतम्
द्वितीयोऽङ्कः __(ततः प्रविशति विदुरः सशारोपकरणः पुरुषश्च ।) विदुरआ देवाहिव्यपकेरुहसदनजुषोऽस्मिन्महाराजवंशे
विष्वक्सेनावताराद्विजयिनि जगतामत्र चित्रप्रसूतेः। हे विश्वे लोकपालास्त्वमपि वसुमति ब्रूहि वाचं पवित्रा
मिन्दोरन्यस्य दृष्टो यदि किल कलयाप्यास्तृताङ्कः कलङ्कः ॥१॥ तत्रैव गोत्रे संप्रति तुवाच्यं यत्र दुरुक्तयः कुचरितं नानाविधा वर्णिका
लोभः सान्द्रतमो रसः किमपरं भावश्च मोहो महान् । शैलूषैः कितवैरनेककपटश्रेणीमहानाटकं
द्यूतं यत्किल तत्र कौरवपतिः प्रस्तावनायां स्थितः॥२॥ पुरुषः-आर्य धर्मावतार विदुर! किं पुनरेवं भण्यते? यतो दूतमहत्वरा एवं मन्त्रयन्ति
रणन्मणिनूपुरा रणरणद्धारच्छटाः
क्वणन्मणिकिङ्किणीमुखरमेखलामालिकाः । भवन्ति भवनाङ्गणेऽनघघनस्तन्यस्तेषां परं
प्रसन्नदिनस्वामिन इह जयन्ति द्यूतेन ये ॥ ३॥ विदुर-तिमिगिलगिलन्यायोऽयं शृङ्गयति नात्र जीयते । (विचिन्त्य ।)
श्रीनिर्वासनडिण्डिमो धनरव सद्मः स्थितं छद्मनां
सत्योत्सारणघोषणा तत इतो लज्जा निवापाञ्जलिः । द्वारं दुर्यशसा पराभवपदं गोष्ठी गरिष्ठापदां ___द्यूतं दुर्नयवारिधिनिपततां कस्तत्र हस्तग्रहः ॥ ४॥ पुरुषः-आर्य धर्मावतार विदुर ! किं पुनरिदं सखेदं मन्यते ! विदुर-चण्डातक ! शृणु यन्मन्यते । (पुनस्तदेव पठति ।) १. प्राकृतच्छायारूपोऽयं श्लोकः अत एव च्छन्दोभङ्गः.