________________
बालभारतम्
(पुरोऽवलोक्य च । ) कथमेते महोदय महानगरलीलावतंसा विद्वांसः सामाजिकाः । तदेवं विज्ञापयामि । ( अञ्जलिं बङ्का । )
सा शुक्तिर्मधुपानकेलिचषकं वेणीविभूषामणिः सीतायाः स च कुम्भसंभवमुनेः प्राप्ता च सैकावली । पर्यङ्कः स च विद्रुमद्रुममयस्तद्रामसिंहासनं
चिह्नं यस्य यशोनिधिर्विजयतां सोऽयं रघोरन्वयः ॥ ६ ॥
तत्र च -
नमितर्मुरलमौलिः पाकलो मेकलानां
रणकलितकलिङ्गः केलित केरलेन्दोः । अजनि जितकुलूतः कुन्तलानां कुठारो हठहृतरमठश्रीः श्रीमहीपालदेवः ॥ ७॥
तेन च रघुवंशमुक्तामणिना आर्यावर्तमहाराजाधिराजेन श्रीनिर्भय नरेन्द्रनन्दनेनाधिकृताः सभासदः ! सर्वानेष वो गुणाकरः सप्रश्रयं विज्ञापयति — विदितमेतत्तु भवताम्, यदुत नाट्याचार्येण रङ्गविद्याधरेण प्रतिज्ञातम् -
-
राजशेखर कवेर्महात्मनो बालभारतमिदं हि नाटकम् । योऽभिनेष्यति रसैर्निरन्तरं मत्सुतां स परिणेष्यति क्षितौ ॥ ८ ॥ (आकाशे । ) तत्रभवन्तः ! किं बूथ — इदं हि तद्बालभारतं यस्य हि प्रचण्डपाण्डवमिति नामान्तरम् ? ( अञ्जलिं बद्धा । ) यदादिशन्ति परि
१. महोदयमिति कान्यकुब्ज ( ' कनोज्ञ' ) नगरस्य नामान्तरम्. २. मुरल-मेकल-कलिङ्गकेरलकुलूत कुन्तल-रमठाख्या देशविशेषाः ३. पाकलो हस्तिज्वरः 'गान्धारा घिगन्धभवभूतिः । कलः' इति हर्षचरितम्. 'कलभं कठ र इव कूटपाकलः' इति मालतीमाधवे द्विपपा पाकल एव कूटपाकलः. ४. आदिष्टोऽस्मि — श्रीमही गलदेवेन, यस्येमां पुराविदः प्रशस्तिगाथामुदाहरन्ति - 'यः संसृत्य प्रकृतिगहनामार्यचाणक्यनीति जित्वा नन्दान्कुसुम नगरं चन्द्रगुप्तो जिगाय । कर्णाटत्वं ध्रुवमुपगतानथ तानेव हन्तुं दोर्दर्पाढ्य स पुनरभवच्छी महीपालदेवः ॥' इति चण्डकौशिके आर्यक्षेमीश्वरः स एवायमपि -महीपालदेव इति तु न निश्चयः